Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 188
________________ भुवनसुन्दरसूरिकृतटीकायुतं तर्भावः । यद्येवंविधैरनुमानैः शब्दानित्यत्वं साध्यते, तर्हि गगनानित्यत्वमपि कस्मान्न साध्यते इति । (भुवन०)-परः पृच्छति । अथेति । सिद्धान्त्याह-तीति । यथा असिद्धत्वविरुद्धत्वादिदोषाः मुख्याः एव, तथा सिद्धान्तविप्लावकत्वमपि मुख्यमेव दूषणमित्याकूतम् । स्वतन्त्रदूषणत्वकल्पने गौरवं बाधकस्तर्क इत्याशङ्कयाह-यद्वेति । प्रतिबन्धामन्तर्भावप्रकारमेवाविर्भावयतियद्येवंविधैरिति । एवंविधैर्महाविद्यानुमानैर्यदिशब्दस्यानित्यत्वं साध्यते, तर्हि तथैव गगनाऽनित्यत्वमपि कथं न साध्यते इति । एतत्तत्वम् । 'चोद्यपरिहारसाम्यं प्रतिबन्दीतर्कः' इति हि तल्लक्षणम् । ततोऽत्रापि यद्येवमित्यादिना चोद्यपरिहारसाम्यमदर्शि ।। __यदि पुनः सिद्धान्तविश्लावकत्वं सर्वसाधनदूषणसाधारणं दूषणं नाङ्गीक्रियते, तर्हि यस्मिन्कस्मिंश्चिदप्यनुमाने परेण पक्षेतरत्वेन सोपाधिकत्वेऽभिहिते संदिग्धसाध्यपक्षवृत्तित्वेन संदिग्धानैकान्तिके वा अभिहिते किं वक्तव्यम् । एवं सति सर्वानुमानविप्लव इति वक्तव्यमिति चेत् । तर्हि स्वीकृतमायुष्मता सिद्धान्तविप्लावकत्वस्य दूषणत्वम् । एवं वाद्युदीरितसाधने भवता अनैकान्तिकत्वादिसम्यग्दूषणेऽभिहते, यदि वादी नैतस्यानैकान्तिकत्वादिकं दूषणमिति वद्ति, तर्हि भवता किं वक्तव्यम् । अपसिद्धान्तः स्यादिति वक्तव्यमिति चेत् । न । एतस्य हेतोर्यदनैकान्तिकत्वं तस्य तेन दूषणत्वानङ्गीकारात् । एवं तर्हि सर्वत्रानैकान्तिकत्वस्य दूषणत्वं न स्यादिति चेत् । अङ्गीकृतं तर्हि सिद्धान्तविप्लावकत्वस्य दूषणत्वमित्यलं कलहेन । - (भुवन०)-पूर्वपक्षिणं शङ्कते-यदि पुनरिति । सर्वसाधनानां यानि दूषणानि असिद्धत्वादीनि तेषां साधारणं समानमित्यन्वयः । परमार्थस्त्वयं-यादृशमसिद्धत्वादिदूषणं तादृशं सिद्धान्तविप्लावकत्वदूषणमपि यदि नाभ्युपेयते । तर्हि यस्मिन्निति । पक्षेतरत्वस्योपाधिदूषणत्वेऽपि शब्दो नित्यः कृतकत्वाद्धटवदित्यादौ यत्र काप्यनुमाने प्रतिवादिना पक्षेतरत्वेन सोपाधिके प्रोक्ते । यद्वा 'संदिग्धविपक्षवृत्तिः संदिग्धानैकान्तिकः' इति तल्लक्षणे सत्यपि, प्रतिवादिना संदिग्धसाध्यं यत्र स संदिग्धसाध्यः, स चासौ पक्षश्च, तद्वत्तित्वेन हेतोः संदिग्धानकान्तिकत्वे प्रसजिते, किं वाच्यं भवतीत्याशयः । परः उत्तरयति–एवं सतीति । घट्टकुट्यां प्रभातमिति न्यायेन परिहरति-तर्हि स्वीकृतमिति । प्रकारान्तरेण सिद्धान्तविप्लावकत्वं स्वीकारयति-एवं वायुदीरितेति । नित्याः वर्णाः श्रावणत्वाच्छन्दत्ववदित्यादौ नैत्यशब्दिकवायुदीरिते साधने भवता प्रतिवा. दिना ध्वनिरूपे भागेऽनैकान्तिकत्वादिसम्यद्षणेऽभिहिते, यदि वादी नैतस्य हेतोरनैकान्तिकत्वादिदूषणमिति वदति, तदा त्वया किं वाच्यमित्यर्थः । परः प्रत्याचष्टे-अपसिद्धान्त इति । परिहरति १ कथं न इति' इति च पुस्तकपाठः । २ नैत्यशब्दवा' इति छ पुस्तकपाठः । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260