Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text ________________
५०३ महाविद्याविडम्बनम् ।
१३९ मपि पक्षधर्मताबलात्साध्यपक्षसंसर्गातिरिक्तं सिध्यतीति त्वयैवोक्तम् । तत्कथं पर्वतनिष्ठवन्हिविशेषसिद्धिः।। __(भुवन० )-अथ धूमानुमानेऽप्यर्थान्तरताप्रथनेन प्रतिबन्दीमुपादत्ते परः-अथ मतमिति । इत आरभ्य 'तदयुक्तमिति यावत्पराशङ्का । अस्ति तावदिति । वह्निविशेषः तार्णपार्णादिकः पाकादियोग्योऽग्निरित्यर्थः । तत्माप्तिरिति । तत्प्राप्तिः पर्वतनिष्ठवह्निविशेषप्राप्तिः । न च वह्निमत्त्वमिति । वह्निमत्त्वे वा असौ वह्निविशेषो न स्यात् । वह्निविशेषस्य वह्निमत्त्वजातेभिन्नत्वात् । नापीति । नापि तस्य वन्हिमत्त्वस्य असौ वन्हिविशेषो व्यापकः। वन्हिविशेषस्य वह्निमत्त्ववत्यपि महानसादौ अवर्तनात् । न चाव्यापकमिति । वह्निविशेषादिकं धूमवत्त्वादिहेत्वव्यापकमपि साधनस्य पक्षधर्मताबलात् साध्यं वह्निमत्त्वं, पक्षः पर्वतः, तत्संयोगादधिकं सिध्यतीति पूर्व त्वयैव महाविद्याविडम्बनाभिमानिनैवोक्तम् । तत्कथमिति । तस्मात्पर्वते सामान्येन वह्निमत्त्वे सिद्धेऽपि वह्निविशेषसिद्धिः कथमिति भावः।
___ अथ धूमवत्त्वस्य वन्हिमत्त्वं व्यापकम् , वन्हिमत्त्वं च वन्हिविशेषघटितमूर्ति, तेन पर्वते वन्हिमत्त्वमधिगम्यमानं वन्हिविशेषावच्छिन्नमेवाधिगम्यते इति । एवं तर्हि पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वमपि व्यापकं पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठविशेषघटितमूर्तीति सो. ऽपि पक्षे सिध्यत्येव।
(भुवन०)-शङ्कते-अथ धूमेति । धूमवत्त्वव्याप्यस्य वह्निमत्त्वं व्यापकम् । वह्निमत्त्वं वेति । "निर्विशेषं हि सामान्यं भवेत् शशविषाणवन् । सामान्यरहितत्वेन विशेषास्तद्वदेवही"ति वचनाद्वह्निमत्त्वं सामान्यं वह्निविशेषेण घटितमूर्तीत्यभिप्रायः । फलितमाह-तेनेत्यादि । यदैव वह्निमत्त्वं ज्ञायते, तदैव वह्निविशेषोऽप्यवगम्यते इत्याशयः । मार्गमागतोऽसीत्याह-एवं तहीति । सोऽपि पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठविशेषः पक्षीकृतशब्दानित्यत्वे सति शब्दत्वादिरित्यर्थः।
अथ पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठविशेषसिद्धावपि पक्षमात्रनिष्ठत्वे सति अनित्यनिष्ठः कथं पक्षे सिध्यतीत्युच्येत, तर्हि धूमानुमाने वन्हिविशेषसिद्धावपि कथं पर्वतनिष्ठवन्हिविशेषसिद्धिरिति वक्तव्यम् ।
(भुवन०)-आशङ्कते-अथ पक्षीकृतेति । पक्षीकृतेत्यादिविशेषस्य घटादौ सपक्षे सिद्धावपि, पक्षः शब्दः, तन्मात्रनिष्ठत्वे सति योऽनित्यनिष्ठः शब्दानित्यत्वे सति शब्दत्वादिः, स कथं पक्षे शब्दे सिध्यतीत्यर्थः।तुल्यचर्चतया परिहरति-तहीति ।
अथ वह्निविशेषो द्विविधः-अपर्वतनिष्ठः, पर्वतनिष्ठश्च । आद्यः पक्षे व्याघातादिना निरुडः । तेन द्वितीयस्य सिद्धिरिति । एवं तर्हि पक्षीकृतश
१ शब्दादिरि' इति छ पुस्तकपाठः ।
Aho ! Shrutgyanam
Loading... Page Navigation 1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260