Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text ________________
प०३ महाविद्याविडम्बनम् ।
११९ (भुवन०)-सत्प्रतिपक्षतां प्रयोगान्तरेण स्पष्टयति-यद्वैवमिति । इदानीन्तनं यत्पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं महाविद्यासाध्यं तेन रहितो यस्तद्वान्वर्तमानः कालः इत्यन्वयः । अनुमानं व्याचष्टे-इदानींतनेति । आद्यः पक्षे इति । आद्यः इदानीन्तनत्वरहितरूपः पक्षे व्याहतः, सपक्षे च सार्थकः । व्याघातमाह-नहीति । वर्तमानकालधर्मस्य इदानींसत्त्वादिदानीन्तनत्वरहितत्वं व्याहतमित्यर्थः । द्वितीयं पक्षं व्याख्याति-पक्षीकृतेत्यादि । महाविद्यासाध्यरहितः पक्षितशब्दः एवेत्यर्थः । हेतुमाह-पक्षीकृतशब्दान्येति । पक्षीकृतशब्दान्यस्वधर्मस्य पक्षशब्दादन्यस्मिन्नेव वर्तनात्पक्षीकृतशब्दतदितरवृत्तित्वरहितस्य तथा घटादयोऽनित्यास्तेषु निष्ठस्य पक्षीकृतशब्दव्यतिरिक्त सर्वस्मिन् घटात्मादौ घटनात् । तेन पक्षीकृत इति । तेन हेतुनैवंविधमहाविद्यासाध्यरहितः पक्षितशब्दः एव । तद्वांश्च वर्तमानः काल इत्याशयः । सिद्धं दर्शयति-पक्षीकृतशब्द इति । अयमर्थः-महाविद्यासाध्यं शब्दानित्यत्वसाधनायोपन्यस्तम् । तच्चेच्छब्दे न वर्तते, तर्हि शब्देऽनित्यत्वस्य योऽभावो नित्यत्वं तस्य सिद्धिरभूदेव ! अथ व्यावर्त्यचिन्ता । अतीतकालेन भागे सिद्धसाधननिवारणाय वर्तमानः काल इति प्रोक्तं । अप्रसिद्धविशेपणतां निवारयति-इदानीन्तनेत्यनेन । व्याघातं परिहरति-पक्षीकृतेत्यादिना । अर्थान्तरता अप्रसिद्धविशेषणता च मा भूदिति रहितेतिपदग्रहणम् । एवमिदानीमिति । इदानीन्तनत्वेन विशेषितं यत्सकलमहाविद्यासाध्यवत्त्वं तेन रहितः पक्षीकृतशब्दादिः, तेनान्वितो यो वर्तमानकाल: तत्साधनेनेत्यर्थः।
न च अनिदानींतनकालत्वमुपाधिः । पक्षातिरिक्तव्यावर्त्याभावेन पक्षेतरत्वग्रस्तत्वात् । अयं कालः इदानींतनैतदुपाधिव्यतिरिक्तैतत्साध्यव्यापकव्यतिरिक्ततत्साध्यव्यापकवान् कालत्वादित्यादिना प्रकृतोपाधेः प्रकृतसाध्यव्यापकत्वभङ्गाच । इदानींतनैतदुपाधिव्यतिरिक्तैतत्साध्यव्यापकव्यतिरिक्तो हि इदानींतनत्वरहितो वा स्यात्, एतदुपाधिव्यतिरिक्तैतत्साध्याव्यापकव्यतिरिक्तो वा । आद्यः पक्षे व्याहतः । एतदुपाधिव्यतिरिक्तैतत्साध्याव्यापकव्यतिरिक्तोऽपि एतत्साध्यव्यापको वा अयमुपाधिर्वा । आद्यः एतत्साध्याव्यापकपदेन निरस्तः । द्वितीये पुनरस्योपाधेरेतत्साध्याव्यापकत्वसिद्धिरिति । प्रकृतहेतुव्यापकाभावाव्याप्यत्वान्नायं प्रकृतहेतुप्रतिपक्षः, धूमवत्त्वादिवदिति चेत् । न । प्रकृतहेतुप्रतिपक्षत्वाप्रमितौ, तभावसाधनस्य अप्रसिद्धविशेषणत्वात् । अत्रैव तत्प्रमितौ, तद्भावसाधनस्य बाधितत्वात् । एतद्यतिरिक्तस्थले च तत्पमितौ तेनैव सत्प्रतिपक्षत्वस्य दुर्वारत्वादिति ।
(भुवन०)-उपाधिशङ्कां निरस्यति-न चानिदानीमिति । न चातीतकाले अनिदानीन्तनकालत्वमुपाधिः । हेतुमाह-पक्षातिरिक्तेति । यत्र अनिदानीन्तनकालत्वं नास्ति, तत्रेदानी.
१ धर्मस्य इदानीन्तनस्वरहि इति छ द पुस्तकपाठः ।
Aho ! Shrutgyanam
Loading... Page Navigation 1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260