Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 182
________________ १२४ भुवनसुन्दरसूरिकृतटीकायुतं . पर्वतेतरत्वोपाधौ उद्भाविते पक्षस्यैव व्यावर्तनात्पक्षेतरत्वम् । पक्षेतरस्योपाधित्वे च सर्वानुमानोच्छेदप्रसङ्ग इत्यर्थः । कुतो न युक्तमत्राह-व्यापकेति । व्यापक उपाधिः, तव्यावृत्तौ व्याप्यस्य साध्यस्थ व्यावृत्तेरवश्यंभावित्वेन मेयत्वादिसाधनवति पक्षे शब्दे एव व्याप्तिभङ्गात् । तथाहि-यत्र साध्यं तत्रोपाधिर्यथा घटादौ, यत्र चोपाधेरभावस्तत्र साध्यस्याप्यभावो यथा शब्दे एव इति । उपाधियावर्तमानः साध्यमपि व्यावर्तयतीत्युपाधिना साध्यस्य गृहीतत्वात्साध्यसाधनयोर्व्याप्तिभङ्गः इत्युपाधेः साफल्यमित्याशयः । विपर्यये बाधकमभिधत्ते-अन्यथेति । यदीदृशोऽपि नोपाधिः, तर्हि स्थलान्तरे अनुमानान्तरेऽप्युपाधेर्दूषणत्वं नोपपद्यते इत्यर्थः । किश्च पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वव्यापकत्वं स्वस्वेतरवृत्तित्वरहितमेयत्वाव्यापकनिष्ठाश्रिताधिकरणं मेयत्वात् घटवदिति चोपाध्यनुमानम् । मेयत्वाव्यापकत्वं स्वस्वेतरवृत्तित्वरहितपक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वव्यापकनिष्ठाधिकरणं मेयत्वात् घटवदिति चोपाध्यनुमानः। पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वव्यापकत्वं च मेयत्वादावेव सिद्धम् । मेयत्वाव्यापकत्वं चानुष्णत्वादौ सिडमिति नानयोराश्रयासिद्धत्वादि शङ्कनीयम् । तदिदमुक्तं प्रोन्मीलयत्यात्मनःसोपा. धित्वमिति । व्याप्यत्वासिद्धं च मेयत्वम् । मेयत्वं स्वस्वेतरवृत्तित्वरहितपक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वाव्याप्यनिष्ठाधिकरणं मे. यत्वादिति व्याप्यत्वाभावानुमानात् । - (भुवन०)-अथ पुनरपि पक्षेतरत्वोपाधेः साधनाव्यापकत्वं चानुमानाभ्यां दर्शयतिकिं च पक्षीकृतेत्यादि । महाविद्यासाध्यध्यापकत्वं पक्षः, मेयत्वस्य अव्यापके निष्ठो मेयत्वाव्या. पकनिष्ठः, तस्याश्रितो मेयत्वाव्यापकनिष्ठाश्रितः । स्वस्वेतरवृत्तित्वरहितश्चासौ मेयत्वाव्यापकनिष्ठाश्रितश्च तदधिकरणमिति पदान्वयः । स्वस्मिन् महाविद्यासाध्यव्यापकत्वे पक्षीकृते स्वस्मात्पक्षादितरस्मिंश्च वृतित्वरहितः स्वमात्रवृत्तिर्वा स्वेतरमात्रवृत्तिर्वा । तत्र द्वितीयः पक्षान्योन्याभावादिः पक्षे व्याघातानिषिद्धः । स्वमात्रवृत्तिस्तु एतत्पक्षत्वं धर्मः पक्षे सिध्यति । स च धर्मों मेयत्वस्य अव्यापके निष्ठो यो धर्मस्तदाश्रितस्तदैव, यदि महाविद्यासाध्यव्यापकत्वरूपः पक्षो मेयत्वाव्यापकनिष्ठः स्यात् । तथा च यैर्हि महाविद्यासाध्यव्यापकत्वमुपाधिधर्मो मेयत्वाव्यापकनिष्ठो जातः, तर्हि मेयत्वरूपसाधनाल्यापकः उपाधिर्जातः एवेति पक्षीकृतशब्देतरत्वोपाधेः साधनाव्यापकत्वम् । अत्र सपक्षे स्वेतरमात्रवृत्तिरेतत्पक्षान्यत्वादिधर्मोऽवगन्तव्यः । स च धर्मो मेयत्वाव्यापको घटादिः, तनिष्ठो घटत्वादिर्धर्मस्तदाश्रित एवेति साध्यप्रसिद्धिः । आश्रिताधिकरणमित्युक्ते एतत्पक्षमात्रवृत्तिधर्मणोपायः साधनव्यापकत्वेऽप्युपपद्यमानेन अर्थान्तरम् । तन्निवृत्तये मेयत्वाव्यापकनिष्ठेति । एतावत्युच्यमाने च मेयत्वादिना अर्थान्तरत्वम् , अत उक्तं स्वेतरवृत्तित्वरहितेति । तथापि सपने .. १ तिरहि इति च पुस्तकपाठः । २ यदि महा इति छ पुस्तकपाठः । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260