Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 180
________________ १२२ भुवनसुन्दरसूरिकृतटीकायुतं महाविद्याहेतौ प्रादर्शि, बाधं किमिति न दर्शितवन्तः इत्याशङ्कयाह-कालात्ययेति । महाविद्याहेतोरिति शेषः । अप्येकप्रतिपक्षोऽपि न क्षमः स्वार्थसिद्धये । महाविद्या तु किं नाम प्रतिपक्षशताकुला ॥ १५॥ (भुवन०)-सत्प्रतिपक्षतामुपसंहरति-अप्येकेति ॥ १५ ॥ अथ प्रबन्धादादिष्टं यहेत्वाभासपश्चकम् । तत्प्रत्युक्तमहाविद्याबलात्तस्यां प्रपश्यते ॥ १६ ॥ तथाहि, किश्च स्वव्यभिचारमुल्ललयति प्रोन्मीलयत्यात्मनः सोपाधित्वमुदाहरत्यभिमतव्याप्यत्वभङ्गं निजम् । आचष्टे प्रतिपक्षमात्मविषयं बाधां समुन्मुद्रय त्याधत्ते स्थितिविप्लवं च भजते प्रत्यर्थितामात्मनः ॥१७॥ इति। तथाहि-अयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादित्यनैकान्तिकम् । एतच्छब्दैतच्छब्देतरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं वा स्वस्वेतरवृत्तित्वरहितमेयत्व. वन्निष्ठात्यन्ताभावप्रतियोगिनिष्ठाधिकरणं मेयत्वात् घटवदितिव्यभिचारानुमानात् । तदिदमुक्तं किञ्च स्वव्यभिचारमुल्ललयतीति । स्वस्वेतरवृत्तित्वरहिता. नित्यनिष्ठाधिकरणत्वे च पक्षीकृतशब्दान्यत्वमुपाधिः । न च साध्यव्यापकत्वानिश्चयात्पक्षतरत्वस्यानुपाधित्वमिति युक्तम् । पक्षीकृतशब्देतरत्वं स्वस्वेतरवृ. त्तित्वरहितप्रकृतसाध्यव्यापकनिष्ठाधिकरणं मेयत्वादिति प्रकृतसाध्यव्यापकत्वानुमानात् । न च साध्यव्यापकत्वसाधनाव्यापकत्वनिश्चयेऽपि पक्षेतरत्वादेवायमनुपाधिरिति युक्तम् । व्यापकव्यावृत्तौ व्याप्यव्यावृत्तेरावश्यकत्वेन साधनवति पक्षे एव व्याप्तिभङ्गस्यावश्यकत्वात् । अन्यथा स्थलान्तरेऽपि उपा. धेर्दूषणत्वानुपपत्तेः। (भुवन०)-उत्तरश्लोकतात्पर्यमाह-अथ प्रबन्धादिति । प्रबन्धो नैरन्तर्यमनन्तरमिति यावत् । अनन्तरमेव यद्धेत्वाभासपञ्चकमसिद्धविरुद्धानैकान्तिकसत्प्रतिपक्षबाधरूपमुपदिष्टं तद्धत्वाभासपञ्चकं तस्यां वादिप्रयुक्तमहाविद्यायां प्रपश्यते विस्तार्यते । कस्मात् प्रत्युक्तमहाविद्याबलात् । प्रति सन्मुखमुक्ता प्रत्युक्ता या महाविद्या प्रत्यनुमानरूपा तबलात् । एतावता महाविद्ययैव महाविद्या दूष्यते इत्यर्थः ॥ १६ ॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260