________________
१२२
भुवनसुन्दरसूरिकृतटीकायुतं महाविद्याहेतौ प्रादर्शि, बाधं किमिति न दर्शितवन्तः इत्याशङ्कयाह-कालात्ययेति । महाविद्याहेतोरिति शेषः ।
अप्येकप्रतिपक्षोऽपि न क्षमः स्वार्थसिद्धये ।
महाविद्या तु किं नाम प्रतिपक्षशताकुला ॥ १५॥ (भुवन०)-सत्प्रतिपक्षतामुपसंहरति-अप्येकेति ॥ १५ ॥
अथ प्रबन्धादादिष्टं यहेत्वाभासपश्चकम् ।
तत्प्रत्युक्तमहाविद्याबलात्तस्यां प्रपश्यते ॥ १६ ॥ तथाहि, किश्च स्वव्यभिचारमुल्ललयति प्रोन्मीलयत्यात्मनः
सोपाधित्वमुदाहरत्यभिमतव्याप्यत्वभङ्गं निजम् । आचष्टे प्रतिपक्षमात्मविषयं बाधां समुन्मुद्रय
त्याधत्ते स्थितिविप्लवं च भजते प्रत्यर्थितामात्मनः ॥१७॥ इति। तथाहि-अयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादित्यनैकान्तिकम् । एतच्छब्दैतच्छब्देतरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं वा स्वस्वेतरवृत्तित्वरहितमेयत्व. वन्निष्ठात्यन्ताभावप्रतियोगिनिष्ठाधिकरणं मेयत्वात् घटवदितिव्यभिचारानुमानात् । तदिदमुक्तं किञ्च स्वव्यभिचारमुल्ललयतीति । स्वस्वेतरवृत्तित्वरहिता. नित्यनिष्ठाधिकरणत्वे च पक्षीकृतशब्दान्यत्वमुपाधिः । न च साध्यव्यापकत्वानिश्चयात्पक्षतरत्वस्यानुपाधित्वमिति युक्तम् । पक्षीकृतशब्देतरत्वं स्वस्वेतरवृ. त्तित्वरहितप्रकृतसाध्यव्यापकनिष्ठाधिकरणं मेयत्वादिति प्रकृतसाध्यव्यापकत्वानुमानात् । न च साध्यव्यापकत्वसाधनाव्यापकत्वनिश्चयेऽपि पक्षेतरत्वादेवायमनुपाधिरिति युक्तम् । व्यापकव्यावृत्तौ व्याप्यव्यावृत्तेरावश्यकत्वेन साधनवति पक्षे एव व्याप्तिभङ्गस्यावश्यकत्वात् । अन्यथा स्थलान्तरेऽपि उपा. धेर्दूषणत्वानुपपत्तेः।
(भुवन०)-उत्तरश्लोकतात्पर्यमाह-अथ प्रबन्धादिति । प्रबन्धो नैरन्तर्यमनन्तरमिति यावत् । अनन्तरमेव यद्धेत्वाभासपञ्चकमसिद्धविरुद्धानैकान्तिकसत्प्रतिपक्षबाधरूपमुपदिष्टं तद्धत्वाभासपञ्चकं तस्यां वादिप्रयुक्तमहाविद्यायां प्रपश्यते विस्तार्यते । कस्मात् प्रत्युक्तमहाविद्याबलात् । प्रति सन्मुखमुक्ता प्रत्युक्ता या महाविद्या प्रत्यनुमानरूपा तबलात् । एतावता महाविद्ययैव महाविद्या दूष्यते इत्यर्थः ॥ १६ ॥
Aho ! Shrutgyanam