________________
१०३ महाविद्याविडम्बनम् ।
१२१ मितौ प्रतिपक्षत्वप्रमितौ तदभावसाधनस्य प्रतिपक्षत्वाभावसाधनस्य बाधितत्वम् । यतः प्रमाणेन गृहीतस्य न ह्यभावः कर्तुं शक्यः । द्वितीयं दूषयति-एतद्व्यतिरिक्तेति । एतस्माद्व्यतिरिक्ते स्थले अनुमानान्तरे तत्प्रमितौ प्रकृतहेतुप्रतिपक्षत्वप्रमितौ तेनैवान्यस्थले प्रमितप्रकृतहेतुप्रतिपक्षत्वेनैव सत्प्रतिपक्षतेत्याशयः ।
किञ्च, किमिदं प्रकृतहेतुप्रतिपक्षत्वं, किं प्रकृतहेतुव्यापकाभावव्याप्यत्वं, किंवा प्रकृतहेतुपक्षनिष्ठतया प्रकृतविप्रतिपत्तिगोचरानित्यत्वाद्यभावसाधकत्वे सति प्रकृतहेतुतुल्यबलत्वम्, किंवा प्रकृतहेतुपक्षनिष्ठतया प्रकृतव्यापकाभावसाधकत्वे सति प्रकृतहेतुतुल्यबलत्वम्, किंवा अन्यदेव किश्चित् । आद्याभावसाधने साध्याविशिष्टता। द्वितीये बाधः । तृतीयेऽपि बाध एव । पक्षे प्रकृतव्यापकाभावप्रतीतिमन्तरेण अनित्यत्वाभावप्रतीतेरपर्यवसानादिति । न हि अयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणं अनित्यत्वाभाववांश्चेति शक्यं प्रतिपत्तुम् । चतुर्थस्तु अप्रसिद्धत्वादेव निषेड्डुमशक्य इति स उपेक्षणीयः । कालात्ययापदिष्टतां पुनरग्रे व्युत्पादयिष्यामः ।
(भुवन०)–परोक्तानुमाने प्रकृतहेतुप्रतिपक्षः किंरूपोऽत्र विवक्षितः इत्यादि विकल्पयतिकिश्चेत्यादि । प्रकृतहेतुमेयत्वादिः, तस्य व्यापकं महाविद्यासाध्यं, तस्य योऽभावः, तेन व्याप्यत्वं, किंवा प्रकृतहेतोः प्रमेयत्वादेर्यः पक्षः शब्दादिः, तन्निष्टतया यत्प्रकृतं विप्रतिपत्तिगोचरमनित्यत्वादिसाध्यं तदभावसाधकत्वे सति प्रकृतहेतोर्मेयत्वादेः तुल्यं बलं यस्य स तथा, तद्भावस्तत्त्वम् । किंवा प्रकृतहेतोर्यः पक्षः, तन्निष्ठतया प्रकृतव्यापकं महाविद्यासाध्यं, तदभावसाधकत्वे सति प्रकृतहेतोस्तुल्यबलत्वम् । किंवा अन्यदेवैतद्विकल्पत्रयात्किञ्चिदित्यर्थः । विकल्पचतुष्टयमपि क्रमाग्निर्लोठयति-आद्याभावेति । आद्याऽभावसाधने प्रकृतहेतुव्यापकाभावव्याप्यत्वरूपप्रतिपक्षत्वाभावसाधने । अयं हेतुः प्रकृतहेतुव्यापकाभावव्याप्यत्वरूपप्रतिपक्षो न भवति, प्रकृतहेतुव्यापकाभावाव्याप्यत्वात् धूमत्वादिवदित्यत्र हेतोः साध्याविशिष्टता स्यात् । साध्यादविशिष्टता साध्याविशिष्टता। साध्यरूपः एव हेतुरित्यर्थः । द्वितीयतृतीयौ निरस्यति-द्वितीयेत्यादि । हेतुमाहपक्षे प्रकृतेति । पक्षे शब्दे, प्रकृतव्यापकं महाविद्यासाध्यं, तदभावप्रतीति विना अनित्यत्वाभावप्रतीतिर्न पर्यवस्यतीति परमार्थः । एतदेव विशदयति-न ह्ययमिति । इदमत्राकूतम्-शब्दस्याद्यापि महाविद्यासाध्यमानत्वात् , यावच्च महाविद्यासाध्यरहितत्वं न सिद्धं, तावन्महाविद्यासाध्यसहितत्वमेव शब्दस्य । तस्मिँश्च सति अनित्यत्वाभाववान् शब्दः इति न हि प्रतिपत्तुं शक्यम् । एतावता महाविद्यासाध्याभावप्रतीत्यभावात्तृतीयविकल्पेऽपि बाधो दर्शितः एव । तुरीयं प्रत्याहचतुर्थ इति । अन्यदेवेति सामान्योक्तावपि विशेषस्यानिर्दिष्टत्वेन अप्रसिद्धत्वादेव चतुर्थविकल्पप्रतिपादितप्रकृतहेतुप्रतिपक्षत्वं भवता निषेढुं न शक्यत इति स चतुर्थविकल्पः उपेक्षणीयोऽवगणनीय इत्यर्थः । नन्वसिद्धविरुद्धानैकान्तिकसत्प्रतिपक्षबाधा इति हेत्वाभासपञ्चके तञ्चतुष्टयमेव
१६-१७ महाविद्या०
Aho! Shrutgyanam