________________
१२०
भुवनसुन्दरसूरिकृतटीकायुतं न्तनेत्यादिसाध्यवत्त्वमपि नास्ति, यथा पक्षे वर्तमानकाले एवेति पक्षादतिरिक्त ययावत्यै विपक्षः, तदभावेन पक्षेतरत्वदोषः उपाधेरिति भावः । एतदुपाधेः साध्यव्यापकतामनुमानेन भनक्तिअयं काल इत्यादि । एष चासौ उपाधिश्चैतदुपाधिः, तस्माव्यतिरिक्ताश्च ते एतत्साध्याव्यापकाच, एतदुपाधिव्यतिरिक्तैतत्साध्याव्यापकाः । इदानीन्तनाश्च ते एतदुपाधिव्यतिरिक्ततत्साध्याव्यापकाश्च । तेभ्यो व्यतिरिक्ताश्च ते एतत्साध्याव्यापकाच, तद्वानयं वर्तमानः काल इत्यन्वयः । अथ व्यावर्त्यचिन्ता । अयं कालः एतत्साध्याव्यापकवानित्युक्ते एतत्साध्याव्यापकैर्घटादिभिः सिद्धसाध्यता स्यात् । तद्व्यावृत्त्यर्थमेतत्साध्याव्यापकव्यतिरिक्तेत्युक्तम् । एवमुच्यमाने च व्याघातः । न हि एतत्साध्याव्यापकव्यतिरिक्ताः एतत्साध्यव्यापकाश्च धर्माः सम्भवन्ति । तन्निवृत्त्यर्थमेतदुपाधिव्यतिरिक्तेत्युपात्तम् । एतदुपाधिव्यतिरिक्तैतत्साध्यव्यापकव्यतिरिक्तैतत्साध्याव्यापकवानित्युक्ते यद्यप्येतदुपाधेरेतत्साध्याव्यापकत्वं सिध्यति, तथाप्यतीतकालादौ सपक्षे एवंविधधर्माभावात्साध्यवैकल्यं स्यात् , तदर्थमिदानीन्तनेति पदोपादानम् । अनुमानं ग्रन्थकृब्याचाख्यायते—इदानीमिति । एतत्साध्यं पूर्वानुमानोक्तमिदानीन्तनपक्षीकृतेत्यादिकं, तस्याव्यापकाः एतत्साध्याव्यापकाः इत्यर्थः । इदानीन्तनाः वर्तमानाः, एतदुपाधिः अनिदानीन्तनकालत्वरूपः, तद्व्यतिरिक्ता एतत्साध्यव्यापकाश्च धर्मा घटत्वपटत्वादयः, तद्व्यतिरिक्तो धर्मो द्विधा स्यादिति परमार्थः । आद्यः पक्षे व्याहत इति । आद्यः इदानीन्तनत्वरहितरूपः साध्याव्यापकः साध्यव्यापको वाऽस्मिन्वर्तमानकाले पक्षे व्याहत इत्यर्थः । द्वितीय पक्षं व्याचष्टे-एतदुपाधीति । एतत्साध्यव्यापकोऽस्तित्वप्रमेयत्वादिरित्यर्थः । सिद्धमुपपादयति-द्वितीय इति । अयमुपाधिरेतत्साध्याव्यापकेत्यन्त्यविशेषणविशिष्टः पारिशेष्या. त्पक्षे साधितः इत्येतस्योपाधेरेतत्साध्यव्यापकत्वं सिद्धम् । अत्रातीतकालादौ सपक्षे इदानीन्तनत्वरहितो धर्मो ज्ञेयः । परः शङ्कते-प्रकृतहेत्विति । प्रकृतो हेतुर्मेयत्वादिः, तस्य व्यापकं महाविद्यासाध्यं, तस्य योऽभावस्तेन न व्याप्यते इत्यतो हेतो यं पूर्वोक्तप्रतिपक्षानुमानस्य कालत्वादिति हेतुः प्रकृतहेतोर्महाविद्यासत्कस्य मेयत्वादेः प्रतिपक्षः इति पदान्वयः । अयं भावः । येन हेतुना यत्साध्यं साध्यते, तत्साध्यं तस्य हेतोर्व्यापकम् । कालत्वादिति प्रतिपक्षहेतुना च महाविद्याऽभावः साध्यः । न च महाविद्यासाध्याभावेन प्रतिपक्षहेतुप्प्यः , कालत्वरूपप्रतिपक्षहेतुमत्यपि काले महाविद्यासाध्याभावाभावात् । निदर्शनं दर्शयति-धूमवत्त्वादिवदिति । यथा धूमवत्त्वादिहेतवो महाविद्यासाध्याभावाव्याप्यत्वान्न प्रकृतहेतुप्रतिपक्षाः, तथायमपि हेतुरित्यभिप्रायः । एतावतैवं परेणानुमानं विहितं भवति । तथाहि-नायं हेतुः प्रकृतहेतुप्रतिपक्षः प्रकृतहेतुव्यापकाभावाव्याप्यत्वात् धूमवत्त्वादिवदिति । अत्र परानुमाने प्रकृतहेतुप्रतिपक्षोऽप्रमितो न वेति विकल्प्याद्यं प्रत्याहन प्रकृतेति । प्रकृतहेतोर्मेयत्वादेर्यत्प्रतिपक्षत्वं, तस्य अप्रमितौ तदभावसाधनस्य प्रकृतहेतुप्रतिपक्षत्वाभावसाधनस्य अप्रसिद्ध विशेषणत्वं दृष्टान्तेऽप्रसिद्धत्वमित्यर्थः । भावार्थस्त्वयम्-यत्पक्षे साध्यं साध्यते, तद्धि सपक्षे प्रसिद्ध स्यादिति हि रीतिः । अत्र च यदि प्रतिपक्षत्वं न प्रमितं, तदा प्रतियोग्यनवगतेः तदभावोऽप्यप्रमितः एव । तथा च तदभावसाधनस्याप्रसिद्धत्वान्न सिद्धिः। द्वितीयपक्षे प्रमितत्वमस्मिन्नेवानुमाने, अनुमानान्तरे वा । आद्यं दूषयति-अत्रैवेति । अत्रैवानुमाने तत्प्र
१ साध्याभाषाम् । इति छ पुस्तकपाठः ।
AMAVACHAN
HHHHHHHHHHH
-
Aho! Shrutgyanam