________________
प०३ महाविद्या विडम्बनम् ।
१२३ (भुवन०) हेत्वाभासपञ्चकं श्लोकेनोपपादयति-किञ्चेति । मेयत्वादिकः पूर्वोक्तो महाविद्याहेतुः स्वव्यभिचारमात्मनोऽनैकान्त्यमुल्ललयति अङ्करयति, प्रोन्मीलयति प्रकाशयति, स्थितिविप्लवमव्यवस्थामाधत्ते, स्वस्य प्रत्यर्थितां विरोधितां भजते ॥ १७ ॥ ___ श्लोकं व्याचष्टे तथाहीत्यादि । अनुमिमीते-एतच्छन्देति । एतच्छब्देत्यादि स्वस्वे. तरेत्यादि वा महाविद्यासाध्यं पक्षः । स्वस्वेतरवृत्तित्वरहितश्चासौ मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगिनिष्ठश्चेति विग्रहः । स्वस्मिन्पक्षीकृतमहाविद्यासाध्ये स्वस्मात्पक्षीकृतमहाविद्यासाध्यादितरस्मिंश्च युगलावृत्तित्वेन वृत्तित्वरहितो धर्मः स्वमात्रवृत्तिा, स्वेतरमात्रवृत्तिर्वा । तत्र द्वितीयः पक्षे व्याहतः । तस्मात्स्वमात्रवृत्तिरेतत्पक्षत्वादिधर्मः पक्षे सिध्यति । स च धमों मेयत्ववन्तो घटादिपदार्थाः, तनिष्ठो योऽत्यन्ताभावः, तस्य यः प्रतियोगी, तस्मिन्निष्टस्तदैव यदि पक्षीकृतमहाविद्यासाध्यं मेयत्ववनिष्ठात्यन्ताभावप्रतियोगि स्यात् । तस्य धर्मस्य एतत्पक्षमात्रवृत्तित्वेनान्यत्रावर्तनात् । यदिच महाविद्यासाध्यं मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगि जातं, तदानीं मेयत्ववति महाविद्यासाध्यस्य अत्यन्ताभावः सम्पन्नः एव । तथा च मेयत्वसाधनवति घटादिभावे महाविद्यासाध्याभावान्मेयत्वस्य अनैकान्त्यसिद्धिः । स्वेतरमात्रवृत्तिधर्मोऽत्र पक्षान्यत्वादिः सर्वत्र सपक्षे बोद्धव्यः । स च स्वेतरस्मिन्नेव वर्तनात्स्वस्वेतरवृत्तित्वरहितः, तथा मेयत्ववत्पक्षीकृतं महाविद्यासाध्यं तत्र निष्ठो योऽत्यन्ताभावस्तत्प्रतियोगिनि घटादौ निष्ठश्च सम्भवेदिति तेन व्याप्त्यनुगमः । अधिकरणमित्युक्ते स्वनिष्ठेन महाविद्यासाध्यत्वधर्मेण स्वस्य मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वाभावेऽप्युपपद्यमानेनार्थान्तरं स्यात् । तन्निवृत्त्यर्थ मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगिनिष्ठेत्युपात्तम् । तथोक्ते घटपक्षीकृतमहाविद्यासाध्यान्यतरत्वेन मेयत्ववत्पटादिनिष्ठात्यन्ताभावप्रतियोगिघटनिष्ठेनार्थान्तरम् । अत उक्तं स्वेतरवृत्तिवरहितेति । तथापि सपने साध्याप्रसिद्धिः, तदुक्तं स्वेति । उक्ते मूलपदमवतारयतितदिदमिति । उपाधिदोषं पोषयति-स्वस्वेतरेत्यादि । अयं शब्दः स्वस्वेतरेत्यादिमहाविद्यानुमाने पक्षीकृतो यः शन्दस्तदन्यत्वमुपाधिः । यत्र महाविद्यासाध्यं तत्रैतच्छब्दान्यत्वं, यथा घटास्मादाविति साध्यव्यापकत्वात, मेयत्वसाधनवति शब्दे एतच्छब्दान्यत्वस्याभावेन साधनाव्यापकत्वाच्च । पराशङ्कां पराकरोति-न च साध्येति । साध्यव्यापकत्वस्य अनिश्चयात्पक्षेतरत्वस्य एतच्छब्दान्यत्वस्यानुपाधित्वमिति भावः । हेतुमाह-पक्षीकृतेत्यादि । पक्षीकृतशब्देतरत्वरूपः उपाधिरेव पक्षः । स्वस्वेतरवृत्तित्वरहितश्चासौ प्रकृतसाध्यव्यापकनिष्ठश्चेति समासः । स्वस्मिन् पक्षीकृतशब्देतरत्वोपाधौ स्वस्मादेतदुपाधेरितरस्मैिश्च वृत्तित्वरहितः स्वमात्रवृत्तिा, स्वेतरमात्रवृत्तिर्वा । तत्र स्वेतरमात्रवृत्तिः पक्षान्यत्वादियद्यपि प्रकृतसाध्यव्यापके मेयत्वादौ निष्ठोऽस्ति, तथापि पक्षादन्यत्रैव वर्तनात्पक्षे व्याहतः, सपक्षे च सर्वत्र प्रयोजकः । तेन स्वमात्रवृत्तिरेतदुपाधित्वादिधर्मः पक्षे सिध्यति । स च धर्मः प्रकृतं साध्यं महाविद्यासत्कं स्वस्वेतरेत्यादिकं तस्य यो व्यापकस्तत्र निष्ठस्तदैव, यद्ययमुपाधिः प्रकृतसाध्यव्यापकः स्यादिति । परिशेषप्रमाणेनैतच्छब्दान्यत्वोपाधेः साध्यव्यापकत्वं सिद्धम् । व्यावृत्त्यकृत्यं स्पष्टम् । न च साध्येति । साम्यव्यापकत्वसाधनाव्यापकत्वरूपोपाधिलक्षणसद्भावेऽपि पक्षेतरत्वमेव दोषः । तथाहि-यत्रीपाधिना पक्षः एव व्यावय॑ते नेतरो विपक्षः, तत्र पक्षेतरत्वं, यथा धूमानुमाने प्रतिवादिना
Aho! Shrutgyanam