Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 161
________________ १०३ ५०३ महाविद्याविडम्बनम् । व्याप्यनिवृत्तेरावश्यकत्वेन पक्षीकृतशब्दे एव मेयत्वपक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वयोव्योप्तिभङ्गादित्यवेहि । इदमेव चान्यत्राप्युपाधिदूषणत्वबीजम् । (भुवन० )-आशङ्कते-कथमिति । अस्योपाधेरित्यर्थः । आचार्यः प्रत्याचष्टे-अश्रावणत्वेति । अश्रावणत्वं यः उपाधिर्व्यापकस्तस्य निवृत्तावनित्यत्वं साध्यरूपं व्याप्यं निवर्तत एव । तथा हि-यत्र यत्र अनित्यत्वं तत्र तत्र अश्रावणत्वं यथा घटादौ । यत्राश्रावणत्वं न स्यात्तत्रानित्यत्वमपि न, यथा शब्दत्वे नित्यत्वेन वादिप्रतिवादिनोः संमते । एतावता उपाधिर्निवर्तमानः साध्यं गृहीत्वा निवृत्तः । किं तहीत्याह-पक्षीकृतशब्दे इति । पक्षीकृतशब्दे एव यन्मेयत्वसाधनं पक्षीकृतेत्यादिमहाविद्यासाध्यं च तयोर्व्याप्तिभवात् । अयमर्थः । उपाधिधर्मो व्याप्तिः साधने चकास्ति, जपापुष्पंधर्मो लौहित्यं स्फटिकोपल इवेत्युपाधिना साध्यसाधनयोर्व्याप्तिभङ्गः । इदमेव चेति । अन्यत्राप्यनुमानेषूपाधेर्दूषणत्वमेवमेवेति भावः। यदा स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं अनित्यत्वेन विशेष्य अश्रावणत्वमुपाधिर्वक्तव्यः । तथाहि-यत् एतच्छब्दैतच्छब्देतरनिष्ठत्वरहितानित्यनिष्ठाधिकरणत्वे सति अनित्यं, तत् अश्रावणमिति साध्यव्यापकत्वम् । अश्रावणत्वं च मेयत्ववत् शब्दत्वादिनिष्ठात्यन्ताभावप्रतियोगीति साधनाव्यापकम् । तेन भवत्युपाधिः । न चाभिप्रेतसाध्यव्यापकस्य विशेषितसाध्यव्यापकस्य चोपाधित्वेऽतिप्रसङ्गः । एवंविधोपाधिमतामनुमानत्वानङ्गीकारात् । तद्रहितेषु च स्वतः एवातिप्रसङ्गनिवृत्तिरिति । अन्यथा व्यापकत्वाभिमतसाध्यव्यापकस्यापि उपाधित्वे प्रवर्तमानस्यातिप्रसङ्गस्य कः शास्ता इति । (भुवन०)-प्रकारान्तरेणोपाधिं व्युत्पादयति-यद्वा स्वस्वेतरेति । स्वस्वेतरेत्यादिमहाविद्यासाध्यमनित्यत्वेन विशिष्टं कृत्वा अश्रावणत्वमुपाधिवक्तव्यः । एतदेवोपाधेः साध्यव्यापकत्व. दर्शनपूर्वकं दर्शयति-तथा हीति । यदेतच्छब्देत्यादिमहाविद्यासाध्यवत्त्वे सति अनित्यं तदश्रावणं, यथा घटादि । उपाधेः साध्यव्यापकतां प्रदर्श्य साधनाव्यापकतामाह-अश्रावणत्वं चेति । मेयत्ववद्यच्छब्दत्वादि तत्र निष्ठो योऽत्यन्ताभावस्तस्य प्रतियोगि अश्रावणत्वम् । एतावता मेयत्वसाधनवति शब्दत्वादावश्रावणत्वरूपोपाधेरत्यन्ताभावः । शब्दमेयत्वसद्भावेऽप्यश्रावणत्वस्य असद्धावात् । आशङ्कापूर्व परिहरति-न चाभिप्रेतेति । अभिप्रेतसाध्यमनित्यत्वम्, विशेषितसाध्यं महाविद्यासत्कम् । हेतुमाह-एवंविधेति । एवंविधोपाधिमतामनुमानानामित्यर्थः । तद्रहितविति । एवंविधोपाधिरहितेषु स्वयमेवातिप्रसङ्गनिवृत्तेः । अन्यथेति । एवंविधोपाधिरहितानुमानेष्वपि अति. प्रसङ्गकरणे । व्यापकत्वाभिमतेति । व्यापकत्वेनाभिमतं मुख्यं यत्साध्यमग्निमत्त्वादि तब्यापकस्या. १ अस्याग्रे ‘अत्र साध्यसाधनयोाप्तिः । सा अश्रावणत्वेन सोपाधिका' इत्यधिकं च पुस्तके दृश्यते । २ पुष्पलौहि इति च पुस्तकपाठः । ३ वपि अप्रसङ्ग इति छ द पुस्तकपाठः । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260