Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 163
________________ १०३ महाविद्याविडम्बनम्। व्यापकीभूतसाध्यं महाविद्यासत्कं, तदभाववतो व्यावय॑त्वमित्यादिव्यवस्था गरीयसी निष्प्रमाणका। कल्पनालाघवे सति कल्पनागौरवबाधकतर्कसद्भावात् । ननु अस्तु पक्षं पक्षीकृत्य प्रवर्तमानासु महाविद्यासु अयमुपाधिः । सप. क्षविपक्षादीन् पक्षीकृत्य प्रवर्तमानमहाविद्यास्तु उपाधिविधुरा एवेत्यत आह "सर्वत्रैवमुपाधिरप्रतिहतः," इति अयं घटः एतद्धटैतच्छन्दव्यतिरिक्तत्वरहितानित्यान्यः मेयत्वादित्यत्र अश्रावणत्वमुपाधिः । एतच्छब्दनिष्ठतया परं प्रति साध्यस्य अनित्यत्वस्य व्यापकत्वात् । मेयत्वसाधनाव्यापकत्वाच । अनित्यत्वरूपसाध्यरहितशब्दत्वादिव्यावहँसत्त्वेन पक्षेतरत्वानाक्रान्तत्वाचेति । तथा गगनं शब्देतरानित्यनित्यवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादित्यत्रापि अश्रावणत्वमुपाधिः । एतच्छन्दनिष्ठत्वेन साधयितुमभिप्रेतस्य अनित्यत्वस्य व्यापकत्वात्, मेयत्वाव्यापकत्वाच्च । सिषाधयिषितानित्यत्वाभाववतः शब्दत्वादेावय॑स्य सत्वेन पक्षेतरत्वानाक्रान्तत्वाचेति । एवं साध्यादीनपि पक्षीकृत्य शब्दानित्यत्वे प्रवर्तमानासु महाविद्यास्वंयमुपाधिद्रष्टव्यः । ननु अस्तु नाम अनित्यत्वे प्रवर्तमानासु महाविद्यासु अश्रावणत्वमु. पाधिः । अन्वयव्यतिरेकिसाध्यान्तरप्रवर्तमानासु न कश्चिदुपाधिरित्यत्राप्येतदेवोत्तरम् । सर्वत्रैवमुपाधिरप्रतिहत इति । यत्र यत्रान्वयव्यतिरेकिणि हेतौ यो य उपाधिः, तत्तत्साध्यप्रवर्तमानमहाविद्यासु स स एवोपाधिः पूर्वन्यायेन द्रष्टव्यः । यः पुनरन्वयव्यतिरेकी निरुपाधिक एव, तत्साध्यप्रवर्तमानमहाविद्याप्यनौपाधिकी एवास्तु । किं नः छिन्नम् । तदप्रामाण्यस्य वक्ष्यमाणदोषैरपि सिद्धेः। (भुवन)-तुरीयपादभागमवतारयितुं चोदयति । नन्वस्त्विति । इत आरभ्य एतदेवोत्तरं सर्वत्रैवमुपाधिरप्रतिहत इतियावत्सुगममिति न लेशतोऽपि व्याचक्रे । ननु स श्यामो मैत्रपुत्रत्वात्संप्रतिपन्नपुत्रवदित्यन्वयव्यतिरेकिणि सोऽयं स्वस्वेतरवृत्तित्वरहितश्यामनिष्ठाधिकरणं मेयत्वाद्धटात्मा दिवदित्यस्यां महाविद्यायामश्रावणत्वस्य अनुपाधित्वादेतदेवोत्तरमित्ययुक्तमुक्तमित्याशङ्कयाह-यत्र यत्रान्वयीति । यत्र यत्र अन्वयव्यतिरेकिणि मूलानुमानहेतौ यः उपाधिः । तत्तदिति । तत्तदन्वयव्यतिरेकिहेतुसाध्यप्रवर्तमानमहाविद्यासु स एव मूलानुमानोपाधिरेव द्रष्टव्यः । श्यामत्वसाध्यप्रवर्तमानमहाविद्यायां च शाकाद्याहारजन्यत्वं मेयत्वसाधनाव्यापकं पक्षनिष्ठतया विप्रतिपन्नश्यामत्वसाध्यव्यापकं दुग्धाद्यश्यामव्यावर्त्य विशिष्टमुपाधिः । परमाणुनित्योऽनादिभावत्वात् १ बास्वश्रावणत्वम् इति घ पुस्तकपाठः । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260