________________
१०३
महाविद्याविडम्बनम्।
व्यापकीभूतसाध्यं महाविद्यासत्कं, तदभाववतो व्यावय॑त्वमित्यादिव्यवस्था गरीयसी निष्प्रमाणका। कल्पनालाघवे सति कल्पनागौरवबाधकतर्कसद्भावात् ।
ननु अस्तु पक्षं पक्षीकृत्य प्रवर्तमानासु महाविद्यासु अयमुपाधिः । सप. क्षविपक्षादीन् पक्षीकृत्य प्रवर्तमानमहाविद्यास्तु उपाधिविधुरा एवेत्यत आह
"सर्वत्रैवमुपाधिरप्रतिहतः," इति अयं घटः एतद्धटैतच्छन्दव्यतिरिक्तत्वरहितानित्यान्यः मेयत्वादित्यत्र अश्रावणत्वमुपाधिः । एतच्छब्दनिष्ठतया परं प्रति साध्यस्य अनित्यत्वस्य व्यापकत्वात् । मेयत्वसाधनाव्यापकत्वाच । अनित्यत्वरूपसाध्यरहितशब्दत्वादिव्यावहँसत्त्वेन पक्षेतरत्वानाक्रान्तत्वाचेति । तथा गगनं शब्देतरानित्यनित्यवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादित्यत्रापि अश्रावणत्वमुपाधिः । एतच्छन्दनिष्ठत्वेन साधयितुमभिप्रेतस्य अनित्यत्वस्य व्यापकत्वात्, मेयत्वाव्यापकत्वाच्च । सिषाधयिषितानित्यत्वाभाववतः शब्दत्वादेावय॑स्य सत्वेन पक्षेतरत्वानाक्रान्तत्वाचेति । एवं साध्यादीनपि पक्षीकृत्य शब्दानित्यत्वे प्रवर्तमानासु महाविद्यास्वंयमुपाधिद्रष्टव्यः ।
ननु अस्तु नाम अनित्यत्वे प्रवर्तमानासु महाविद्यासु अश्रावणत्वमु. पाधिः । अन्वयव्यतिरेकिसाध्यान्तरप्रवर्तमानासु न कश्चिदुपाधिरित्यत्राप्येतदेवोत्तरम् । सर्वत्रैवमुपाधिरप्रतिहत इति । यत्र यत्रान्वयव्यतिरेकिणि हेतौ यो य उपाधिः, तत्तत्साध्यप्रवर्तमानमहाविद्यासु स स एवोपाधिः पूर्वन्यायेन द्रष्टव्यः । यः पुनरन्वयव्यतिरेकी निरुपाधिक एव, तत्साध्यप्रवर्तमानमहाविद्याप्यनौपाधिकी एवास्तु । किं नः छिन्नम् । तदप्रामाण्यस्य वक्ष्यमाणदोषैरपि सिद्धेः।
(भुवन)-तुरीयपादभागमवतारयितुं चोदयति । नन्वस्त्विति । इत आरभ्य एतदेवोत्तरं सर्वत्रैवमुपाधिरप्रतिहत इतियावत्सुगममिति न लेशतोऽपि व्याचक्रे । ननु स श्यामो मैत्रपुत्रत्वात्संप्रतिपन्नपुत्रवदित्यन्वयव्यतिरेकिणि सोऽयं स्वस्वेतरवृत्तित्वरहितश्यामनिष्ठाधिकरणं मेयत्वाद्धटात्मा दिवदित्यस्यां महाविद्यायामश्रावणत्वस्य अनुपाधित्वादेतदेवोत्तरमित्ययुक्तमुक्तमित्याशङ्कयाह-यत्र यत्रान्वयीति । यत्र यत्र अन्वयव्यतिरेकिणि मूलानुमानहेतौ यः उपाधिः । तत्तदिति । तत्तदन्वयव्यतिरेकिहेतुसाध्यप्रवर्तमानमहाविद्यासु स एव मूलानुमानोपाधिरेव द्रष्टव्यः । श्यामत्वसाध्यप्रवर्तमानमहाविद्यायां च शाकाद्याहारजन्यत्वं मेयत्वसाधनाव्यापकं पक्षनिष्ठतया विप्रतिपन्नश्यामत्वसाध्यव्यापकं दुग्धाद्यश्यामव्यावर्त्य विशिष्टमुपाधिः । परमाणुनित्योऽनादिभावत्वात्
१ बास्वश्रावणत्वम् इति घ पुस्तकपाठः ।
Aho ! Shrutgyanam