________________
भुवनसुन्दरसूरिकृतटी का युतं
युपाधित्वेऽतिप्रसङ्गस्य कः शास्ता शिक्षयिता । अयमभिप्रायः - कस्मिंश्चिदनुमाने सत्योपाधावपि केनाप्युद्भावितेऽतिप्रसङ्गः कथं निवार्यः ।
ननु अत्र अयं क्षन्दः पक्षः । एतद्व्यतिरिक्तं च सर्व सपक्षः । तेन विपक्षरूपव्यावर्त्यभावात् अश्रावणत्वस्य पक्षेतरत्वमित्यत आह
१०४
"शब्दत्वादि निवर्त्यमस्ति न ततः पक्षेतरत्वभ्रमः” इति । यत् विप्रतिपन्नं प्रति पक्षनिष्ठतया वादिना साध्यते तत्साध्यम् । तदभाववांश्च विपक्ष: उपाधेवर्त्यः । तथाविधश्च अश्रावणत्वस्य शब्दत्वादिरेव । तेन व्यावर्त्य सत्वान्न पक्षेतरत्वभ्रान्तिः कर्तव्या ।
( भुवन० ) - लोकतृतीयपादावताराय आशङ्कां कुरुते - नन्वत्रेति । पक्षेतरत्वमिति । विमता हिंसा अधर्मसाधनं हिंसात्वात् ग्लेच्छहिंसावदित्यत्र निषिद्धत्वमुपाधिः । अस्योपाधेः संध्यावन्दनादिर्विपक्षो व्यावर्त्यः । संध्यावन्दनादौ निषद्धत्वाभावात् । अत्र च महाविद्यायां विपक्षस्यैवाभावाद्विपक्षव्यावर्तनाभावेन पक्षः एव व्यावर्त्योऽस्ति । तथा चोपाधेः पक्षेतरत्वं दोषः । 'शब्दत्वादीति । अत्र शब्दत्वाद्युपाधेर्निवर्त्त्यमस्ति । यतोऽत्रा श्रावणत्वमुपाधिः । स च शब्दत्वादेर्विपक्षाव्यावृत्त एव, शब्दत्वेऽश्रावणत्वाभावादित्युपाधेः शब्दत्वादिविपक्षो व्यावर्त्यः । तस्मात्पक्षेतरत्वभ्रमो न कार्य इत्याशयः । श्लोक तृतीयपादं व्याख्याति । यत् विप्रतिपन्नमिति । विप्रतिपन्नं प्रतिवादिनं प्रति यदनित्यत्वादि पक्षे शब्दादौ निष्ठतया वादिना साध्यते तत्साध्यम् । तस्य साध्यस्याभावो नित्यत्वं, तद्वांश्च नित्यो विपक्षः । उपाधेर्व्यावर्त्य इति । यत्र कुत्राप्युपाधिः स्यात्, स विपक्षे पक्षे च वर्तमानो न विलोक्यते । तथा च सति तस्योपाधेर्विपक्षः पक्षश्च व्यावत्यों भवतीति सर्वत्रोपाधेः रीतिः । यत्र च विपक्षो व्यावत्यों न भवेत्तत्र केवलपक्षस्यैव व्यावर्तनादुपाधेः पक्षेतरत्वं दोषः । अत्र च तथा नाशङ्कनीयम् । शब्दत्वादिविपक्षादश्रावणत्वोपाधेर्व्यावृत्तत्वादित्यर्थः । नाममाहमुपाधिव्यावर्त्य माह – तथाविधवेति ।
यत् वादिनो व्यापकत्वेनाभिमतं तदभाववान् विपक्ष: उपाधिव्यावत्य न त्वन्य इति चेत् । न । सर्वत्र विप्रतिपत्तिगोचरसाध्याभाववतो व्यावर्त्य - स्वम् । तथाभूतव्यावर्त्य र हितस्योपाधेः पक्षेतरत्वमित्येतावतैव सकलव्यवस्थोप पत्तौ व्यापकीभूतसाध्याभाववतो व्यावर्त्यत्वं तथाभूतत्र्यावर्त्यरहितस्य च पक्षेतरत्वमित्यादिव्यवस्थाया गरीयस्या निष्प्रमाणकत्वादिति ।
( भुवन० ) - महाविद्यावादी शङ्कते - यद्वादिनो व्यापकेति । व्यापकत्वेन साध्यत्वेनाभिम महाविद्यासाध्यं स्वस्वेतरेत्यादिरूपं तदभाववान्विपक्षः उपाधिना व्यावत्यों, न त्वन्यो भवदद्भिमतो मुख्यानुमानसाध्यविपक्षः इति भावः । आचार्यः उत्तरयति - न सर्वत्रेति । विप्रतिपत्तिगोचरं यत्साध्यमनित्यत्वादि तदभावो नित्यत्वं, तद्वतो नित्यस्य व्यावर्त्यत्वम् । व्यापकीभूतेति ।
१ उपाधेय' इति घ पुस्तकपाठः ।
Aho! Shrutgyanam