________________
१०६
भुवनसुन्दरसूरिकृतटीकायुतं आत्मवदित्यत्र अयममात्मैतदात्मैतत्परमाणुव्यतिरिक्तत्वरहितनित्यान्यः प्रमेयत्वाद्धटादिवदित्यत्र कः उपाधिरत्राह-यः पुनरन्वयेति । तदप्रामाण्यस्येति। निरुपाधिकमहाविद्याया अप्रामाण्यं वक्ष्य. माणदोषैविरुद्धतानैकान्तिकत्वादिभिरपि सेत्स्यतीत्यर्थः ।
यः पुनव्युत्पादितमपि साध्यव्यापकं साधनाव्यापकं चोपाधिं प्रमेयत्वादी न मन्यते, तस्य अयं शब्दोऽनित्यः, सामान्यवत्त्वे सति अस्मद्वाह्यप्रत्यक्षत्वादित्यादावपि अश्रावणत्वादिरुपाधिन स्यात् , अविशेषादित्याह
'नो चेन्न हेत्वन्तरे,' इति (भुवन० )-चतुर्थपादान्त्यभागतात्पर्यमाह-यः पुनर्ग्युत्पादितमिति । य एवं पूर्वोत्पादितमप्युपाधिं न स्वीकुरुते, तस्य अयं शब्दोऽनित्यः इत्यत्रापि अश्रावणत्वोपाधिर्न स्यात् । अस्ति चात्रोपाधिः । तथाहि । यद्यदनित्यं तत्तदश्रावणं यथा घटादि। यत्राश्रावणत्वाभावः तत्रानित्यत्वाभावो यथा शब्दत्वे इति साध्यव्यापकत्वम् । तथा शब्दे सामान्यवत्त्वे सति यदस्मद्वाह्यप्रत्यक्षत्वं तस्मिन्सत्यपि अश्रावणत्वोपाधेरभावात्साधनाव्यापकत्वं चोपाधेः । शब्दवरूपविपक्षव्यावय॑सत्त्वेन च न पक्षेतरत्वमिति । नो चेन्न हेत्वन्तर इति । यदि पूर्वोपपादितः उपाधिन भवति, तदा हेवन्तरे सामान्यवत्त्वे सति अस्मद्वाह्यप्रत्यक्षवादित्यादिकेऽप्युपाधिन स्यादित्यर्थः ।।
अथ प्रतीत्यपर्यवसानलभ्यसाध्यव्यापकः तथाविधसाध्याभाववद्रूपपक्ष. व्यावर्त्यवांश्चोपाधिः कचिदपि न दृष्टः इति चेत् । न । पक्षे व्यापकीभूतसाध्य. साधकं विपक्षादीन् पक्षीकृत्य पक्षे तथाभूतसाध्यसाधकमनुमानमपि कचिन्न दृष्टमेव । महाविद्यैव तथा दृश्यते इति चेत् । तर्हि तदुपाधिरपि तथाभूतो दृश्यते इति संतोष्टव्यम् । न चैवं सति सकलकेवलान्वयिप्रामाण्यभङ्ग इति वाच्यम् । तत्प्रामाण्यस्यास्माभिरनङ्गीकारात् । अङ्गीकारे वा सर्वत्रापर्यवसानलभ्यान्वयव्यतिरेकिसाध्याभावेन तद्यापकस्योपाधेरनुपपत्तिरिति ।।
__ (भुवन० )-परः शङ्कते-अथ प्रतीत्यपर्यवसानेति । प्रतीतेरपर्यवसानेन अभवनेन लभ्यं यदनित्यत्वादिसाध्यं, तस्य व्यापकः, तथा विधं यदनित्यत्वादि साध्यं तस्य योऽभावः, तद्वद्रूपो यो विपक्षो व्यावर्त्यस्तद्वांश्वोपाधिन क्वापि दृष्टचरः। आचार्यः परिहरति-न पक्षे व्यापकेति । पक्षे विपक्षादौ व्यापकीभूतं साध्यं महाविद्यासाध्यं, तत्साधकं सत् विपक्षादीन्पक्षीकृत्य पक्षे शब्दे तथाभूतसाध्यमनित्यत्वादिकं तत्साधकमनुमानमपि कचिन्न दृष्टमित्यर्थः । ननु यदि केवलान्वयी न स्वीक्रियते, तीदृष्टादि कस्यचित्प्रत्यक्षं मेयत्वाद्धटवदित्यादेः केवलान्वयित्वेन अस्वीकारार्हत्वात्सर्वज्ञसिद्धिः कथमित्याशङ्कापरिहारायाह-अङ्गीकारे वेति। केवलान्वयिहेतोरङ्गीकारे वा सर्वानुमानेष्वपर्यवसानलभ्यं यदन्वयव्यतिरेकिणो मूलानुमानस्य साध्यं, तदभावेन व्यापकस्य अपर्यवसान... १ 'अस्मदा दिवायेन्द्रियग्राह्यत्वादि इति घ पुस्तकपाठः । २ वणत्वमुपा' इति घ पुस्तकपाठः । ३ तथाभूता । इति घ पुस्तकपाठः ।
Aho ! Shrutgyanam