________________
प०३
महाविद्याविडम्बनम्। लभ्यान्वयव्यतिरेकिसाध्यव्यापकस्योपाधेरनुपपत्तिः । अयमभिप्राय:-महाविद्यायां हि अपर्यवसान. लभ्यानित्यत्वादिसाध्यसद्भावेन तद्व्यापक उपाधिः सम्भवति, नान्यत्र केवलान्वयिषु । तत्रानन्तरोक्तसाध्यासम्भवात् । तस्मात्केवलान्वयिषूपाधेरभावः इत्यर्थः ।
इति संक्षेपतोऽस्माभिरुपाधिरुपवर्णितः।
महाविद्यानिरासार्थ तन्मूलकषणक्षमः ॥ ५॥ मूलश्लोकस्तु
यो भङ्गिस्थनिवृतिमत्त्वरहितो यदर्जिते मेयता
मेयत्वे श्रुतिगोचरत्वविरहः स स्यादुपाधिर्भुवः । शब्दत्वादि निवत्यमस्ति न ततः पक्षेतरत्वभ्रमः
सर्वत्रैवमुपाधिरप्रतिहतो नो चेन्न हेत्वन्तरे ॥ ६॥ (भुवन)-श्लोकः स्पष्टः॥५॥
अथ संनह्यतेऽभीष्टविरोधस्तर्कमुद्रया।
प्रतिवादिमहाविद्याघर्षणाय विचक्षणः ॥७॥ (भुवन० )-उत्तरश्लोकतात्पर्यमाह-अथ संनद्यते इति । अभीष्टविरोधः संनह्यते सन्नद्धों भवति । कया । तर्कमुद्रया तर्कयुक्त्या ॥ ७ ॥
धत्तेऽभीष्टविरुद्धतां निगदितो हेतुः समुन्मीलयन्
___ इष्टाभावमभीष्टतुल्यनयतः पक्षे विचारक्षमाम् । इति यथाकथितो हेतुःमेयत्वादिः पक्षीकृतशब्दे तत्तदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं साधयन् पक्षे साध्यप्रतीत्यपर्यवसानाद्वाद्यभिमतमनित्यत्वं साधयति। तथा पक्षीकृतशब्दे तत्तदितरवृत्तित्वरहितानित्यत्वात्यन्ताभाववन्निठाधिकरणत्वं साधयन् पक्षे साध्यप्रतीत्यपर्यवसानरूपानित्यत्वसिडितुल्यन्यायेन वाद्यभिमतानित्यत्वात्यन्ताभावं साधयति । तेन वाद्यभिमतानित्यत्वरूपसाध्याभावसाधकत्वाद्यमभीष्टविरुडो विशेषविरुद्ध इष्टविघातकारी चेत्युच्यते । व्यापकत्वाभिमतसाध्याभावव्याप्यत्वं विरुद्धत्वम् । तच्च प्रकृते नास्तीति नायं विरुद्ध इत्यत आह
किश्चियापकमीप्सितं तदपरं भेदस्तयोः कीदृशः
साध्यत्वे तद्भावसाधकतया लोके विरुद्धस्थितिः॥ ८॥ इति। (भुवन०)-अभीष्टविरुद्धतां दर्शयति-धत्तेऽभीष्टेत्यादि । निगदितो हेतुर्मेयत्वादिरभीष्टस्य विरुद्धता अभीष्टविरुद्धता, तां विचारक्षमां धत्ते । किं कुर्वन्समुन्मीलयन् । कम् । इष्टाभावम् । इष्टमनित्यत्वम्, तदभावो नित्यत्वम् । कस्मात् । अभीष्टतुल्यनयतः अभीष्टमनित्यत्वं यथा साध्यते,
Aho! Shrutgyanam