________________
१०८
भुवनसुन्दरसूरिकृतटीकायुतं तथा नित्यत्वमपीति तत्तुल्यन्यायात् । कस्मिन् । पक्षे शब्दादौ । अनित्यत्ववन्नित्यत्वमपि साधयविरुद्धः स्यादित्यर्थः।
श्लोकाध व्याचष्टे-यथाकथित इत्यादि । मेयत्वादिहेतुः पक्षीकृतशब्दे तत्तदितरेत्यादि महाविद्यासाध्यं साधयन्पक्षे यत्साध्यप्रतीतेरपर्यवसानमनुपपत्तिः, तद्बलेन यथा वाद्यभिमतमनित्यत्वं साधयति, तथैव वाद्यभिमतं यदनित्यत्वं तदत्यन्ताभावो नित्यत्वं तदपि साधयति । तथापि किं दूषणमित्याह तेन वायभिमतेति । वाद्यभिमतं यदनित्यत्वरूपं साध्यं तदभावो नित्यत्वं, तत्साधकत्वादयमभीष्टविरुद्धः । ' हेतुभेदाभावेन तुल्यबलः साध्याभावसाधकोऽभीष्टविरुद्धः' इति संपूर्ण तल्लक्षणस्य सद्भावात् । उत्तरार्धावताराय शङ्कते-व्यापकत्वाभिमतेति । व्यापकत्वाभिमतं साध्यमत्र स्वस्वेतरेत्यादिकं महाविद्यासत्कं । तदभावेन व्याप्यो हि हेतुविरुद्ध इत्युच्यते । अयं तु पारिशेष्यलभ्यानित्यत्वसाध्यस्य अभावेन व्याप्यो, न तु महाविद्यासाध्यस्याभावेन । ततो नायं विरुद्ध इत्यर्थः ।
उत्तरार्ध दर्शयति-किञ्चिद्वयापकमिति । किञ्चिद्व्यापकं महाविद्यासाध्यं किञ्चित्तस्मादपरं च व्यापकप्रतीत्यपर्यवसानलभ्यमनित्यत्वादि, तयोः साध्यत्वे भेदः कीदृशो, न कोऽपीत्यर्थः । तयोः साध्ययोर्योऽभावस्तत्साधको लोके तार्किकलोके विरुद्धो हेतुरुच्यते इत्यभिप्रायः ॥ ८॥
प्रकृतव्यापकाभावव्याप्यः प्रकृतो हेतुर्विरुड इत्ययुक्तम् । प्रकृतहेतोरे. वंरूपत्वप्रमितौ विरुद्धत्वस्य दुर्वारत्वात् । अप्रमितौ अस्य लक्षणस्य स्वरूपासिद्धत्वात् । तस्मात्साध्याभावसाधकः प्रकृतो हेतुर्विरुद्ध इत्युच्यते ।
( भुवन० )-श्लोकोत्तरार्ध व्याख्यातुं परोक्तं दूषयति-प्रकृतव्यापकेति । प्रकृतं व्यापक महाविद्यासाध्यं, तदभावेन व्याप्यः प्रकृतो हेतुर्मेयत्वादिविरुद्ध इति भावः । प्रकृतव्यापकाभावव्याप्यत्वं हेतोः प्रमितं न वा । आद्यं प्रत्याह-प्रकृतहेतोरिति । प्रकृतहेतोर्मेयत्वादेरेवंरूपत्वप्रमितौ प्रकृतव्यापकाभावव्याप्यत्वप्रमितौ विरुद्धवंदुर्वारम् । द्वितीयं प्रत्याह-अप्रमिताविति । यदि प्रकृतव्यापकाभावव्याप्यत्वं हेतोरप्रमितं, तदानीमेतल्लक्षणस्य स्वरूपमेवासिद्धम् । यतः एतल्लक्षणं हि विशेषलक्षणत्वेन अन्यत्राप्रसिद्धम् । तर्हि किं लक्षणमित्याह-तस्मात्साध्याभावेति ।
साध्यं च द्विविधम् । किश्चिद्यापकाभिमतं, किश्चिद्यापकप्रतीत्यपर्यवसानलभ्यम्।न चानयोः प्रतिवादिना पक्षनिष्ठतयानङ्गीकृतयोर्वादिना च तनिष्ठतया बोध्यमानयोः साध्यत्वे कश्चिद्विशेषोऽस्ति । व्यापकत्वाभिमतसाध्याभावव्याप्यत्वं तु व्यापकविरुद्धापरपर्यायं विरुद्ध विशेषलक्षणम् । यदि पुनर्विरु
विशेषलक्षणाभावात् नायं विरुद्धः, तर्हि अभिप्रेतसाध्यविशेषाभावसाधको विरुद्ध इति विरुद्धविशेषलक्षणाभावायापकाभिमताभावव्याप्योऽपि विरुद्धो न स्यादिति । यहा मा भूदयं विरुद्धः, तथाप्यभीष्टविरुद्धापरपर्यायं हेत्वाभा. सान्तरं भविष्यति।
१ अनित्यत्वं नित्यत्व' इति छ द पुस्तकपाठः ।
Aho ! Shrutgyanam