________________
५०३
महाविद्याविडम्बनम् ।
(भुवन०)-श्लोकाध व्याचाख्याति-साध्यं च द्विविधमित्यादि । व्यापकत्वेनाभिमतं महाविद्यासाध्यम् । व्यापकं महाविद्यासाध्यं, तस्य या प्रतीतिस्तस्याः अपर्यवसानेन लभ्यमनित्यत्वादि । न चानयोरिति । अनयोः साध्ययोः प्रतिवादिना महाविद्यानिराकर्ता पक्षे शब्दादौ निष्ठतया अनङ्गीकृतयोर्वादिना महाविद्यावादिना तन्निष्ठतया पक्षनिष्ठतया बोध्यमानयोः न च साध्यत्वे कश्चिद्विशेषोऽस्ति । यतः उभयमपि साध्यतयोच्यते । प्रकारान्तरेणाशङ्कते-व्यापकत्वाभिमतेति । व्यापकत्वेनाभिमतं महाविद्यासाध्यं तस्य योऽभावस्तेन व्याप्यत्वं हेतोस्तद्व्यापकविरुद्धः इत्यपरपर्यायं विरुद्धहेतोर्विशेषलक्षणमित्याशयः । आचार्यः प्रत्युत्तरयति-तहीत्यादि । अभिप्रेतः साध्यविशेषोऽनित्यत्वादिः, तदभावसाधको विरुद्ध इत्यभिप्राय: । व्यापकाभिमतेति । व्यापकं यदभिमतं महाविद्यासाध्यमित्यर्थः। तर्हि संशयः एव स्यान्न निर्णयोऽत्राह-यद्वा मा भूदिति ।।
सत्प्रतिपक्ष एवायं, न विरुद्धो,न हेत्वाभासान्तरमिति शिवादित्यमिश्राः। तन्न । साध्याभावसाधकतुल्यबलद्वितीयहेतावेव पूर्वाचार्याणांप्रतिपक्षव्यवहारात् , साध्याभावसाधकत्वमात्रेण प्रतिपक्षत्वे विरुद्वस्यापि प्रतिपक्षत्वप्रसङ्गात् । तुल्यबलत्वाभावान्न विरुद्धः प्रतिपक्षो बाधवदिति चेत् । अथ तुल्यबलत्वविशेषणं किमर्थम् । विरुडादिनिवृत्त्यर्थमिति चेत् । अथ विरुद्धादयः किमर्थ निवाः । पूर्वाचार्याणां तत्र प्रतिपक्षव्यवहाराभावादिति चेत् । एवं तर्हि प्रकृतहेत्वन्यत्वमपि विशेषणमुपादेयमेव । पूर्वाचाय॒स्तस्यैव तं प्रति प्रतिपक्षत्वेन अव्यवहारादित्यलमुपजीव्यैः सह कलहेन ।
( भुवन० )-परमतं प्रकटयति-सत्पतिपक्ष इति । अयं हेतुः प्रकरणसम एवेति शिवादित्यमिश्राः प्राहुरिति । परमतं निरस्यति-तन्न । साध्याभावेति । साध्याभावसाधको यः पूर्वहेतोस्तुल्यबलो द्वितीयहेतुस्तत्रैव पूर्वाचार्याणां सत्प्रतिपक्षत्वव्यवहारात् । इदं हृदयम् । पूर्वानुमानोक्तहेतुना मेयत्वादिना अनित्यत्वादिसाध्यसाधकेन तुल्यबल:, तस्मान्मेयत्वादेश्च यो द्वितीयहेतुरभिधेयत्वादिः पूर्वोक्तानित्यत्वादिसाध्याभावसाधकः स एव सत्प्रतिपक्षः । साध्याभावसाधकस्यैव प्रतिपक्षत्वेऽतिप्रसङ्गमाह-साध्याभावेति । साध्याभावसाधक एव यदि प्रतिपक्षः, तर्हि विरुद्धोऽपि साध्याभावसाधकत्वात्प्रतिपक्षः प्रसज्येत । परः शङ्कते-तुल्यबलेति । साध्याभावसाधकोऽपि तुल्यबल एव प्रतिपक्षो नातुल्यबलः, तस्मात्तुल्यबलत्वाभावाद्विरुद्धः प्रतिपक्षो नोच्यते, यथा बाधः कालात्ययापदिष्टस्तुल्यबलत्वाभावान्न प्रतिपक्षः । प्रश्नपूर्वकं परिहरतिअथ तुल्येत्यादि । साध्याभावसाधकस्तुल्यबलः प्रतिपक्ष इति भवत्संमतलक्षणे तुल्य. बलत्वविशेषणं किमर्थमित्यर्थः । प्रतिबन्दीमुपादत्ते-एवं तहीति । प्रकृतो हेतुर्मेयत्वादिद्युक्तः, तस्मादन्योऽभिधेयत्वादिःसत्त्वम् । एतत्तत्त्वम्-यथा प्रतिपक्षलक्षणे तुल्यबलत्वविशेषणमुपात्तम्,
१ बाधः अधिकवलप्रत्यनुमानस्तुल्य इति च पुस्तकपाठः ।
Aho ! Shrutgyanam