Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 147
________________ १०२ महाविद्याविडम्बनम् । एवं त्वगादीति । त्वक् चर्म, स्पर्शनेन्द्रियमिति यावत् । आदिपदेन जिह्वादीनां ग्रहः । घोरान्धकारनिकरे त्वगादिना गम्ययोज्ञेययोरेतद्धटैतद्भतलादिकयोरेव योऽयमप्रामाणिकः आश्रयायिभावस्तदभावस्य त्वगादिगम्यत्वात् स्पार्शनप्रत्यक्षज्ञेयत्वादित्यर्थः । योग्यतासहितानुपलब्धेरसम्भवादिति यदुक्तं तत्प्रत्याह-योग्यानुपलब्धेरित्यादि । अभावस्य या प्रमा प्रमितिस्तजनकत्वं योग्यानुपलब्धेरस्माकं नाभिमतमिति पूर्वोक्तं दूषणं न किञ्चिदित्यर्थः। _ न च कारणाभावादत्यन्तासद्गोचरानुभवाभावेन प्रतियोगिस्मृत्यनुपपत्तौ तद्भावप्रमानुपपत्तिरिति युक्तम् । एतद्धटैतद्भूतलाश्रयायिभावादेर्वाक्यादिभ्योऽनुभवात् । __(भुवन०)-प्रतियोगिनोप्रामाणिकस्य पूर्वानुभवसंस्काररूपद्वयाभावात्तत्स्मृतेरभावेन तदभावप्रमितिर्न स्यादत्राह-न च कारणाभावादित्यादि । अत्यन्तमसद्रूपं खरविषाणादि, तद्गोचरो योऽनुभवस्तस्याभावेन कुतस्तदभावः इत्याह-कारणाभावादिति । तथाविधं किञ्चित्कारणं नास्ति येनात्यन्तासतोऽनुभवः स्यादित्यर्थः, इत्यनुभवाभावेन प्रतियोगिनोऽप्रामाणिकस्य स्मृत्यनुपपत्तौ । तदभावेति । तस्यात्यन्तासतो योऽभावस्तत्र प्रमायाः प्रत्यक्षादेः प्रमितेरनुपपत्तिरिति न च युक्तमिति संटङ्कः । अन्न हेतुमाह-एतद्धटैतद्भूतलेत्यादिवाक्यादिभ्य इति । अत्र आदिपदेन लिङ्गाभाससंग्रहः। न च एतद्धटैतद्भूतलयोराश्रयाश्रयिभावस्य जातत्वाजनिष्यमाणत्वाचा कथं तस्यात्यन्ताभाव इति वाच्यम् । यस्य घटस्य एततलाश्रयाश्रयिभावोन जातो, नापि भविष्यति, तस्य घटस्य एतद्भूतलेन आश्रयाश्रयिभावो निष्प्रमाणक इति तद्भावस्यात्यन्ताभावत्वेन स्वीकारात् । (भुवन०)-एतद्धटैतद्भूतलसंयोगस्य जातत्वाजनिष्यमाणत्वाद्वा अत्यन्ताभावस्त्रिकालवर्तमानोऽयुक्त हत्याशङ्कयाह-न चैतद्धटैतदित्यादि । इति न च वाच्यमिति सम्बन्धः । अयमर्थः । यत्सर्वथा असद्रूपं खरविषाणादि, तस्यैवात्यन्ताभावो युक्तः, विवक्षितयोरेतयोस्तु घटभूतलयोराश्रयायिभावो जातो वा भावी वेति कथं तस्यात्यन्ताभावो युक्तिमानिति पराशङ्का प्रदर्य सिद्धान्तवादी गूढस्वाभिप्रायमाविर्भावयति-यस्य घटस्येत्यादि । यस्य घटस्य एतद्भूतलेन सह आश्रयायिभावः सम्बन्धः कदापि न जातो नापि भावी, तस्य घटस्यैतद्भूतलेन विवक्षितभूतलेनाश्रयायिभावो निष्प्रमाणकः प्रमाणाग्राह्यः । प्रत्यक्षादेः प्रमाणस्य तत्रानुदयादिति, तदभावस्यैतद्वटैतद्भूतलाप्रमाणिकाश्रयाश्रयिभावाभावस्यैव अत्यन्ताभावत्वेन स्वीकारादिति पदार्थः । ___यद्वा एतद्धटैतद्भूतलयोराश्रयायिभावो जातो भविष्यति वा, तदुभयव्यतिरिक्तो यः एतद्धटैततलयोराश्रयाश्रयिभावो निष्पमाणकः, तस्याभावोऽत्यन्ताभावः । यः पुनरेतद्धटैतद्भूतलयोराश्रयायिभाव आसीत् , तस्येदानी. मभावः प्रध्वंसः । यः पुनरेतद्धटैतद्भूतलयोराश्रयायिभावो भविष्यति, तस्येदानीमभावः प्रागभाव इति व्यवस्था । १२ महाविद्या० Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260