________________
१०२
महाविद्याविडम्बनम् ।
एवं त्वगादीति । त्वक् चर्म, स्पर्शनेन्द्रियमिति यावत् । आदिपदेन जिह्वादीनां ग्रहः । घोरान्धकारनिकरे त्वगादिना गम्ययोज्ञेययोरेतद्धटैतद्भतलादिकयोरेव योऽयमप्रामाणिकः आश्रयायिभावस्तदभावस्य त्वगादिगम्यत्वात् स्पार्शनप्रत्यक्षज्ञेयत्वादित्यर्थः । योग्यतासहितानुपलब्धेरसम्भवादिति यदुक्तं तत्प्रत्याह-योग्यानुपलब्धेरित्यादि । अभावस्य या प्रमा प्रमितिस्तजनकत्वं योग्यानुपलब्धेरस्माकं नाभिमतमिति पूर्वोक्तं दूषणं न किञ्चिदित्यर्थः।
_ न च कारणाभावादत्यन्तासद्गोचरानुभवाभावेन प्रतियोगिस्मृत्यनुपपत्तौ तद्भावप्रमानुपपत्तिरिति युक्तम् । एतद्धटैतद्भूतलाश्रयायिभावादेर्वाक्यादिभ्योऽनुभवात् । __(भुवन०)-प्रतियोगिनोप्रामाणिकस्य पूर्वानुभवसंस्काररूपद्वयाभावात्तत्स्मृतेरभावेन तदभावप्रमितिर्न स्यादत्राह-न च कारणाभावादित्यादि । अत्यन्तमसद्रूपं खरविषाणादि, तद्गोचरो योऽनुभवस्तस्याभावेन कुतस्तदभावः इत्याह-कारणाभावादिति । तथाविधं किञ्चित्कारणं नास्ति येनात्यन्तासतोऽनुभवः स्यादित्यर्थः, इत्यनुभवाभावेन प्रतियोगिनोऽप्रामाणिकस्य स्मृत्यनुपपत्तौ । तदभावेति । तस्यात्यन्तासतो योऽभावस्तत्र प्रमायाः प्रत्यक्षादेः प्रमितेरनुपपत्तिरिति न च युक्तमिति संटङ्कः । अन्न हेतुमाह-एतद्धटैतद्भूतलेत्यादिवाक्यादिभ्य इति । अत्र आदिपदेन लिङ्गाभाससंग्रहः।
न च एतद्धटैतद्भूतलयोराश्रयाश्रयिभावस्य जातत्वाजनिष्यमाणत्वाचा कथं तस्यात्यन्ताभाव इति वाच्यम् । यस्य घटस्य एततलाश्रयाश्रयिभावोन जातो, नापि भविष्यति, तस्य घटस्य एतद्भूतलेन आश्रयाश्रयिभावो निष्प्रमाणक इति तद्भावस्यात्यन्ताभावत्वेन स्वीकारात् ।
(भुवन०)-एतद्धटैतद्भूतलसंयोगस्य जातत्वाजनिष्यमाणत्वाद्वा अत्यन्ताभावस्त्रिकालवर्तमानोऽयुक्त हत्याशङ्कयाह-न चैतद्धटैतदित्यादि । इति न च वाच्यमिति सम्बन्धः । अयमर्थः । यत्सर्वथा असद्रूपं खरविषाणादि, तस्यैवात्यन्ताभावो युक्तः, विवक्षितयोरेतयोस्तु घटभूतलयोराश्रयायिभावो जातो वा भावी वेति कथं तस्यात्यन्ताभावो युक्तिमानिति पराशङ्का प्रदर्य सिद्धान्तवादी गूढस्वाभिप्रायमाविर्भावयति-यस्य घटस्येत्यादि । यस्य घटस्य एतद्भूतलेन सह आश्रयायिभावः सम्बन्धः कदापि न जातो नापि भावी, तस्य घटस्यैतद्भूतलेन विवक्षितभूतलेनाश्रयायिभावो निष्प्रमाणकः प्रमाणाग्राह्यः । प्रत्यक्षादेः प्रमाणस्य तत्रानुदयादिति, तदभावस्यैतद्वटैतद्भूतलाप्रमाणिकाश्रयाश्रयिभावाभावस्यैव अत्यन्ताभावत्वेन स्वीकारादिति पदार्थः । ___यद्वा एतद्धटैतद्भूतलयोराश्रयायिभावो जातो भविष्यति वा, तदुभयव्यतिरिक्तो यः एतद्धटैततलयोराश्रयाश्रयिभावो निष्पमाणकः, तस्याभावोऽत्यन्ताभावः । यः पुनरेतद्धटैतद्भूतलयोराश्रयायिभाव आसीत् , तस्येदानी. मभावः प्रध्वंसः । यः पुनरेतद्धटैतद्भूतलयोराश्रयायिभावो भविष्यति, तस्येदानीमभावः प्रागभाव इति व्यवस्था ।
१२ महाविद्या०
Aho ! Shrutgyanam