________________
भुवनसुन्दरसूरिकृतटीकायुतं योग्यता नास्ति । तेन योग्यतासहितानुपलब्धेरसम्भवादप्रामाणिकाभावप्रमितेरनुपपत्तिरिति मन्यसे, तन्न । चाक्षुषयोरप्रामाणिकाश्रयायिभावाभावस्य चाक्षुषत्वाङ्गीकारात् । एवं त्वगादिगम्ययोरप्रामाणिकाश्रयाश्रयिभावाभावस्य त्वगादिगम्यत्वात्, योग्यानुपलब्धेस्त्वभावप्रमाजनकत्वमस्माकमनभिमतमेवेति न किञ्चिदेतत्।
(भुवन०)-परः 'अथ योग्यानुपलब्धी'त्यादि इति मन्यसे' इत्यन्तामप्रामाणिकाभावस्य प्रमित्यनुपपत्तिमाशङ्कते-अथ योग्यानुपलब्धीत्यादि । योग्यस्य घटादेरनुपलब्धिरनुपलम्भस्तया गम्यो ज्ञेयो ह्यभावः । यत्र दर्शनयोग्यस्य घटादेरनुपलब्धिस्तत्र तस्याभावः । यथा आलोकादिसामग्र्यां सत्यां मुण्डभूतले घटादेरभावः । अत्र योग्यानुपलब्धीत्युक्तं, अतो योग्यतालक्षणमाख्यातिप्रतियोगितद्धमेति । प्रतियोगिनो घटादयः, तद्धर्माः घटत्वादयः, तेभ्यो व्यतिरिक्ता आलोकसद्भावादिका प्रतियोगिप्रतीतिकारिणी सामग्री योग्यता इत्युच्यते । प्रतियोगितद्धर्मव्यतिरिक्ता प्रतियोगिप्रमापकसामग्री योग्यतेत्यर्थः । प्रामाणिकप्रतियोगिनः सामग्रीमुक्त्वा अप्रामाणिकप्रतियोगिनस्तामाह-अप्रामाणिकमतीतीति । अप्रामाणिको निषेध्यमान आश्रयाश्रयिभावादिः तस्य या प्रतीतिः, तस्या या सामग्री सा पुनर्धान्तिसामग्र्येव । प्रतियोगितद्धर्मयोः प्रतियोगिप्रतीतिहेतुत्वाद्योग्यतान्तर्भावः किं न स्यादत्राह-सा च प्रतियोगीत्यादि । सा.च भ्रान्तिसामग्री। प्रतियोगी अप्रामाणिकः, तद्धर्माश्च अप्रामाणिकत्वादयस्तद्व्यतिरिक्तवेत्यर्थः । तथापि योग्यानुपलब्धेरभावप्रमापकत्वे प्रकृते किमायातमित्यत आह-तस्यां च सत्यामिति । तस्यां भ्रान्तिसामग्र्यां सत्यामालोकाद्यपेक्षणीयान्तराभावादप्रामाणिकस्यानुपलब्धिर्नास्ति, किं तु अप्रामाणिकस्य सर्वदोपलब्धिरेवास्ति । भ्रान्तिसामग्र्यां भ्रान्त्युत्पत्तिनियमादित्यर्थः । यदि चाप्रामाणिकस्यानुपलब्धिरङ्गीक्रियते, तदा किं स्यादित्यत आह–अनुपलब्धौ चेति । यद्यप्रामाणिकस्यानुपलब्धिः स्यात्, तदा तस्यां सत्यामप्रामाणिकोपलम्भसामग्रीरूपा या योग्यता सैव नास्ति । तस्यां सत्यामुपलब्धेरेव सम्भवात् । अथ फलितं प्रादुश्वरीकरीति-तेन योग्यतेत्यादि । तेन कारणेन योग्यतासहितस्य अप्रामाणिकस्य या अनुपलब्धिस्तस्या असम्भवादप्रामाणिकस्य खरविषाणादेर्योऽभावस्तत्र या प्रमितिः प्रमाणं, तस्या अनुपपत्तिरघटमानतेति पदान्वर्थः । भावार्थस्त्वयम् । अप्रामाणिकं शशशृङ्गादि यद्वस्तु तद्यादशमस्ति, तादृशं सर्वदेवास्ति, तस्य तुच्छत्वात्प्रकाशादिकारणान्तरानपेक्षत्वेन घटादिवत्कादाचित्कोपलम्भानुपलम्भासम्भवात् । तस्य च सामग्र्यपि भ्रान्तिरूपा यादृक्षास्ति तादृक्षी सर्वदेवास्ति । अतोऽप्रामाणिकस्य सर्वदा प्रतीतिसामग्रीसद्भावेन अनुपलब्धेरसम्भवात्सर्वदोपलब्धिरेव स्यात् । तथा चाप्रामाणिकस्य सर्वदोपलभ्यमानत्वेन योग्यानुपलब्धिगम्यत्वलक्षणोऽभाव एव न स्यादिति कथं तत्राभावे प्रमाणमुपपद्यत इति । मन्यस इति पर्यन्तं परोक्तमाशङ्कय अप्रामाणिकाभावस्य प्रत्यक्षत्वाभ्युपगमेन सिद्धान्ती प्रतिविधत्त-तन्नेति । चाक्षुषयोश्चक्षुह्ययोः एत
टैतद्भूतलयोर्योऽप्रामाणिकाश्रयाश्रयिभावस्तदभावस्य चाक्षुषत्वानीकारात् । अयमाशयः । त्वया अप्रामाणिकाभावे प्रमितेरनुपपत्तिरुक्ता । अस्माकं तु मते तत्र प्रत्यक्षमेव प्रमाणं स्फुरतीति ।
Aho ! Shrutgyanam