________________
५०२
महाविद्याविडम्बनम् । तस्मिन्नाश्रयायिभावादौ प्रतियोगिनि असति असद्भूते कस्याभावः स्यादित्यर्थः । पराशङ्कां मत्वा सिद्धान्ती प्रतिविधत्ते-यस्मिन्नसतीति । नन्वसति तस्मिन्नित्यत्र असतीति यस्मिन्विषये त्वयोच्यते, तस्यैवायमभावः । एतावता असत एवायमभाव इत्यर्थः ।।
अथ अभावविरहरूपत्वं प्रतियोगित्वम् , तचाप्रामाणिकस्य न घटते इत्युच्यते । तन्न । अभावतद्धर्मादिव्यतिरिक्तस्य अप्रामाणिकाभाव इत्येतत्प्रतीतिगोचरस्य अप्रामाणिकाभावप्रतियोगित्वेन अप्रामाणिकाभाववादिभिः पूर्वाचार्यैरङ्गीकारात् । वयं तु निष्पतियोगिकमेवात्यन्ताभावं ब्रूमः । प्रतियोगित्वं हि धर्मविशेषः, न चासावप्रामाणिके संभवति ।
(भुवन०)-अथ प्रतियोगिलक्षणप्रणयनपूर्वमप्रामाणिकस्य प्रतियोगित्वाभावमारेकतेअथाभावविरहरूपत्वमिति । अभावस्य असद्रूपस्य यो विरहोऽभावस्तद्रूपत्वं प्रतियोगित्वम् । भावरूपत्वं प्रतियोगित्वमिति भावः । तच्चेति । तदेवंविधं प्रतियोगित्वमप्रामाणिकस्य असत्त्वेन न घटत इत्यर्थः । अभावानाश्रयत्वेऽभावादन्यत्वे च सति अभावप्रतीतिसमये प्रतीयमानत्वमानं प्रतियोगित्वमिति परिहरति-तन्नेति । अभावतद्धमोदीति । अभावश्च, तद्धर्मा अभावत्वादयोऽभावधर्माश्च, अभावतद्धर्माः । अत्रादिपदेन प्रमातृसंग्रहः । तद्व्यतिरिक्तस्य खरविषाणादेः । अप्रामाणिकेति । अप्रामाणिकस्य प्रमाणाग्राह्यस्य वस्तुनोऽयमभावः इत्येवंसम्बन्धपूर्विका या प्रतीतिस्तद्गोचरस्य तद्विषयस्येत्यर्थः । अप्रामाणिकस्य योऽयमभावस्तस्य प्रतियोगित्वेन अप्रामाणिकस्य योऽभावस्तद्वादिभिः पूर्वाचार्यैरङ्गीकारात्स्वीकारादित्यर्थः । अथ सर्वथैवाप्रामाणिकस्य प्रतीतिरनुचितेत्यत्राह-वयमिति । अत्यन्ताभवस्य कोऽपि प्रतियोगी नास्तीति वयमङ्गीकुर्म इत्यर्थः । अत्रैव युक्तिमाचष्टे-प्रतियोगित्वं हीत्यादि।
ननु यदि न अप्रामाणिके अभावप्रतियोगित्वं, कथं तबयमप्रामाणिकोऽभावः इति । अप्रामाणिकाभावत्वरूपधर्माश्रयत्वादित्यवेहि ।
(भुवन०)-अप्रामाणिकप्रतियोगिकत्वानङ्गीकारेऽप्रामाणिकाभाव इति व्यपदेशस्य का गतिरित्याह-ननु यदीत्यादि । अप्रामाणिके एतद्धटैतद्भूतलाश्रयाश्रयिभावादौ यद्यभावप्रतियोगित्वं नास्ति, कथं तीयमप्रामाणिकाभाव इत्युच्यते इत्यर्थः । अप्रामाणिकाभावोऽप्रामाणिका भावत्वरूपधर्मविशेषाश्रयत्वाद्भविष्यतीत्यनेन परारेका तिरस्कुरुते-अप्रामाणिकाभावत्वरूपेति । अप्रामाणिकाभावत्वरूपधर्माश्रयत्वाद्धेतोरप्रामाणिकाभाव इति वक्तुं युक्तमेवेति भावः ।। __अथ योग्यानुपलब्धिगम्यो ह्यभावः, प्रतियोगितद्धर्मव्यतिरिक्ता च प्रतियोगिप्रतीतिसामग्री योग्यता । अप्रामाणिकप्रतीतिसामग्री च भ्रान्तिसामग्येव । सा च प्रतियोगितद्धर्मव्यतिरिक्तैव । तस्यां च सत्यामपेक्षणीयान्तराभावादनुपलब्धिर्नास्ति । अनुपलब्धौ च सत्यामप्रामाणिकोपलम्भसामग्रीरूप
१ रहयोगित्वं प्रति इति० ज पुस्तक पाठः।
Aho ! Shrutgyanam