________________
भुवनसुन्दरसूरिकृतटीकायुतं द्वितीयः । अप्रामाणिकाभावत्वाप्रामाणिकत्वयोः कचिदपि व्यास्यसिद्धेर्मूलशैथिल्यादिति । पूर्ववदापाद्यापादकयोरप्रसिद्धेश्च ।
(भुवन०)-अथ आश्रयायिभावस्याप्रामाणिकत्वात्तदभावस्याप्यप्रामाणिकत्वमिति शङ्कतेअथैतद्धटैतद्धतलेत्यादि । तदभावोऽपीति । एतद्धटैतद्भूतलाश्रयाश्रयिभावाभावोऽपीत्यर्थः । अत्र युक्तिमाह-नहीत्यादि । अप्रामाणिकस्य आश्रयिभावादेरभावोऽप्रामाणिकाभावः । अभावनिरूपकत्वात्प्रतियोगिनः, तदभावोऽपि तत्समान एव न्याय्य इत्यर्थः । विकल्पासहत्वेन परोदितं दूषयति-तन्नेति । अप्रामाणिकाभावत्वेनेति । अप्रामाणिकस्याभावोऽप्रामाणिकाभावः, तत्य भावस्तत्त्वं, तेन । अप्रमाणिकत्वमनुमीयते इति । एतद्धटैतद्भूतलाश्रयायिभावाभावोऽप्रामाणिकः अप्रामाणिकाभावत्वात् खरविषाणाभाववदित्यनुमानं क्रियते । किं वाप्रामाणिकति । अप्रामाणिकस्याभावत्वेनाप्रामाणिकत्वमापाद्यते । यः एवापाद्यते स एव तर्कः, 'आपाद्याभिन्नत्वात्तस्ये 'ति वचनादनिष्टापादनरूपस्तकों वापाद्यत इति । एतावता इदमनुमानमापाद्यरूपस्तकों वेति विकल्पो इत्यर्थः। आये विकल्पेऽप्रामाणिकाभावः प्रमितो न वेति द्वेधा विकल्प्य, क्रमेण दूषणोद्धोषणां विधत्तेअप्रामाणिकाभावस्येति । अप्रामाणिकस्य अभाव इति समासः । विरोधादिति । यदि अप्रामाणिकाभावस्तर्हि कथं प्रमितः, अप्रामाणिकस्य प्रमाणाग्राह्यत्वेन तदभावस्यापि तथात्वादित्यभिप्रायेण विरोध इत्यर्थः । अप्रमितत्वे इति । अप्रामाणिकस्य आश्रयाश्रयिभावस्याभावः पक्षीकृतो यद्यप्रमितः प्रमाणेन न गृहीतः, तर्हि तस्मिन्नप्रमिते खरविषाणे इव प्रवर्तमानोऽप्रामाणिकाभावत्वादिति हेतुराश्रयासिद्धः स्यादित्यभिप्रायः । अथाप्रामाणिकाभावत्वादित्ययं हेतुरसिद्ध इत्याहअप्रामाणिकाभावप्रतीतिमिति । हेत्वप्रमितेश्चेति । अप्रामाणिकाभावत्वादिहेतोर्भवन्मतेऽप्रामाणिकत्वादप्रसिद्धत्वेनासिद्धत्वमित्यर्थः । अथ द्वितीयं विकल्पमुत्थापयति । नापि द्वितीय इति । अप्रामाणिकत्वमापाद्यते इत्येवंरूपो द्वितीयोऽपि न । अप्रामाणिकाभावेति । अप्रामाणिकाभावत्वं व्याप्यम् । अप्रामाणिकत्वं व्यापकम् । तयोश्च यत्र अप्रामाणिकाभावत्वं तत्र अप्रामाणिकत्वमिति व्याप्त्यसिद्धाप्त्यनुपपत्तेः । यतो विवक्षितभूतले प्रामाणिकाश्रयाश्रयिभावाभावोऽप्रामाणिको न भवत्यस्माकं मते । तस्य चाक्षुषत्वेन प्रामाणिकत्वात् । मूलशैथिल्यादिति । तर्कस्य हि मूलं व्याप्तिः, तस्याश्चात्रासिद्धेः प्रशिथिलमूलतापरपर्यायो मूलशैथिल्याख्यस्तर्कदोषः स्यादेवेत्यर्थः । तथा अप्रामाणिकाभावप्रतीतिमनजीकुर्वतो भवतः आपादकादेरसिद्धिरपि तर्कदोषः स्यादित्याहपूर्ववदापाद्यापादकयोरप्रसिद्धेश्चेति । व्याप्योऽप्रामाणिकाभाव आपादकः, व्यापकमप्रामाणिकत्वमापाद्यं तयोरप्रसिद्धेरिति । आपादकादिकं हि प्रसिद्धं वाच्यम् । तञ्च भवन्मतेऽप्रामाणिकत्वेनाप्रसिद्धमिति युक्तं तदप्रसिद्धयाख्यानमित्यर्थः।
ननु असति तस्मिन् कस्याभावः इति चेत् । यस्मिन् असतीति त्वयोच्यते तस्यैव ।
(भुवन० )-अथ ' यदस्ति तन्मेयमिति नियमादप्रामाणिकत्वेन प्रतियोगिनः एतद्धटैतद्भूतलाश्रयायिभावादेरसत्त्वात् अभावो न स्यान्निरूपकाभावादित्याशङ्कते-नन्वित्यादि ।
Aho! Shrutgyanam