________________
५०२
महाविद्याविडम्बनम् । दिति । नापि प्रागभावप्रध्वंसाभावान्योन्याभावव्यतिरिक्तसंसृज्यमानघटाभावाभावेन अस्मिन् भूतले घट एतद्भूतलघटसंसर्गो वा आपाद्यते इति युक्तम् । प्रागभावप्रध्वंसाभावव्यतिरिक्तसंसृज्यमानघटाभावस्य अस्मन्मते निष्प्रमाणकत्वेन तद्भावस्य गगनादौ घटैतद्भूतलघटसंसर्गव्याप्यत्वभङ्गादिति। नाप्येतद्धटैततलाश्रयायिभावो युष्माकमस्माकं वा प्रसिद्ध इति ।
(भुवन०)-किं च प्रागभावप्रध्वंसाभावान्योन्याभावरूपाभावत्रयाभावेन आपादकेन घटः आपाद्यते, किं वा तत्रयातिरिक्तसंसृज्यमानाभावाभावेनेति द्विधा विकल्प्य आये कल्पे आपाद्यापादकयोर्व्याप्तिविरहात्तर्कस्य प्रशिथिलमूलतेत्याह-किं च घटाभावाभावः इत्यादि । घटप्रागभावेत्यादि । घटे हि घटप्रागभावाद्यभावत्रयाभावसम्भवेन आत्माश्रयतापाताद्धटे घटाभावेन च यत्र घटाभावाभावस्तत्र घट इति व्याप्तिभङ्गात् । इदमत्र तत्त्वम् । अत्र घटाभावाभावः आपादकः, घटश्वापाद्यः । ततो घटे घटप्रागभावप्रध्वंसाभावान्योन्याभावाभावोऽस्ति, नतु घटः इति आपाद्यापादकयोर्व्याप्तिभङ्ग इति । द्वितीयं प्रत्याह-नापीति । संसृज्यमानो भूतलेन सम्बद्धथमानो यो घटस्तस्याभावः । प्रागभावादिव्यतिरिक्तश्चासौ संसृज्यमानघटाभावश्च । एवंविधश्चाभावत्रयव्यतिरिक्तो घटस्याभावोऽत्यन्ताभाव एव । तस्याभावेनापाद्यते किं तदित्याह-अस्मिन्भूतले घटो वा एतदूतलघटसंसों वा । नापि युक्तमिति सम्बन्धः । कुत इत्याह-प्रागभावेत्यादि । प्रागभावादिव्यतिरिक्तस्य संसृज्यमानघटाभावस्य घटात्यन्ताभावस्य अस्मन्मते निष्प्रमाणकत्वेन तदभावस्य संसृज्यमानघटाभावाभावस्य गगनादौ घटसंसर्गसद्भावेन घटश्चैतद्भूतलघटसंसर्गश्च ताभ्यां यद्व्याप्यत्वं तस्य भङ्गात् । अयं भावः । गगने यदा केनापि घटो मन्त्रशक्त्या स्तम्भितस्तदा गगने घटात्यन्ताभावाभावस्य सद्भावेऽपि, घटैतद्भूतलघटसंसर्गाभावाद्यत्र यत्र व्याप्यस्य घटात्यन्ताभावाभावस्य सद्भावः, तत्र तत्रैतद्भतलस्थितघटैतद्भूतलघटसंसर्गयोापकयोरभावेन घटैतद्भूतलघटसंसर्गाभ्यां घटात्यन्ताभावाभावस्य व्याप्यत्वभङ्गः स्यादेवेति । एतद्धटैतद्भूतलाश्रयायिभावस्य अप्रामाणिकत्वं नास्मसिद्धान्तमात्रसिद्धं, किन्तु भवतोऽपि संमतमेवेत्याह-नाप्येतद्धटैतद्भतलेत्यादि । इदमत्रैदंपर्यम् । यस्य घटस्यान्यदेशस्थस्य एतद्भूतलेन सह संसगों न जातो, नापि भविष्यति, तस्य घटस्यैतद्भूतलेन सह संसगों निषिध्यते । स च युष्माकमस्माकं वा अप्रामाणिकत्वेन अप्रसिद्ध एव । प्रसिद्धत्वे निषेधासिद्धेरिति ।
__ अथ एतद्धटैततलाश्रयायिभावस्य अप्रामाणिकत्वात्तदभावोऽपि प्रामाणिको न स्यात् । न हि अप्रामाणिकोऽभावः प्रामाणिको नामेत्यभिधत्से । तन्न । किमत्र अप्रामाणिकाभावत्वेन एतद्धटैतद्भूतलाश्रयायिभावाभावस्य अप्रामाणिकत्वमनुमीयते, किंवा अप्रामाणिकाभावत्वेन अप्रामाणिकत्वमापाद्यते । नाद्यः। अप्रामाणिकाभावस्य प्रमितत्वे विरोधात् । अप्रमितत्वे चाश्रयासिद्धेः । अप्रामाणिकाभावप्रतीतिमनङ्गीकुर्वतो भवतो हेत्वप्रमितेश्चेति । नापि
Aho ! Shrutgyanam