________________
भुवनसुन्दरसूरिकृतटीकायुतं (भुवन०)-अथानादिः सान्तः प्रागभावः, सादिरनन्तः प्रध्वंसाभावः, तादात्म्यनिषेधोऽन्योन्याभावः, अनादिरनन्तः संसर्गाभावोऽत्यन्ताभावः, इति चतुर्धाऽभावः। तत्रात्यन्ताभावे प्रमाणमनुभव एवेत्यारेकते-अथान्योन्यमापध्वंसेत्यादि। घटस्य यः इह भूतलेऽत्यन्तमभावः, सोऽन्योन्याभावप्रागभावप्रध्वंसाभावत्रयाव्यतिरिक्तो भिन्नः । पुनः किंविशिष्टः-संसृज्यमानप्रतियोगिनिरूप्य इति । भूतलादिना संसृज्यमानः संश्लिष्यमाणो यो घटादिः प्रतियोगी तेन निरूप्योऽत्यन्ताभावः। तत्मतियोगित्वं चेति । तस्य अत्यन्ताभावस्य प्रतियोगित्वं तत्प्रतियोगित्वं, तदेव चात्यन्ताभावप्रतियोगित्वम् । कुम्भादिनिष्ठमनुभवसिद्धमिति । प्रत्यक्षप्रमाणसिद्धमित्यर्थः । अनुभवस्यान्यथैवोपपत्त्या परोक्तं तिरस्करोति-तन्नेति । आश्रयाश्रयिमावेति । आश्रयो भूतलम् , आश्रयी घटः, तयोर्भाव आश्रयायिभावः । एतद्धटैतद्भूतलयोर्यत्राश्रयायिभावः सम्बन्धस्तदत्यन्ताभावस्यैवानुभवसिद्धत्वात् । अयं भावः । इह भूतले एतद्बटो नास्तीत्ययं घटस्यात्यन्ताभावो न भवति, किं त्वयमाश्रयाअयिभावस्यैवात्यन्ताभावः । यतोऽत्रायं घटो न निषिध्यते, अपि तु एतद्धटैतद्भूतलयोः संसर्गो निषिध्यते । स चाप्रामाणिक एव । तस्य तत्रासत्त्वेन काल्पनिकत्वात् । तस्य तत्रासत्त्वं च यस्य घटस्यैतद्भूतलेन आश्रयायिभावो न जातो, नापि भविष्यति, तस्य घटस्यैतद्भूतलेनाश्रयायिभावस्य निष्प्रमाणकस्य विवक्षितत्वात् । अतोऽप्रामाणिकैतद्बटैतद्भूतलाश्रयाश्रयिभावात्यन्ताभावस्यैव प्रत्यक्षसिद्धत्वान्न घटस्यात्यन्ताभावोऽयमिति ।
___ अथ यदीह भूतले घटाभावाभावः, तर्हि घटः स्यादिति ब्रूषे । तन्न । किमत्र एतद्धटैतद्भूतलसंसर्गः आपाद्यते किंवा घटः । आये आपाद्यासिद्धिः । द्वितीये तु इष्टापादनम् । कचिद् घटस्याप्यङ्गीकारात् ।
- (भुवन०)-अथ घटाभावेऽपोद्यमाने हि घटभाव एवावशिष्यते इति शङ्कते-अथ यदीहेत्यादि। घटस् अभावो घटाभावः, तस्याप्यभावो घटाभावाभावो, घट इत्यर्थः । “द्वौ नौ समाख्यातौ पूर्वोक्तमेवाथै गमयतः" इति न्यायात् । विकल्पद्वयेन एतत्परिहरति-तन्नेति । अत्रेति भूतले । आद्य इति । आये विकल्पे आपाद्यस्य एतद्बटैतद्भूतलसंसर्गस्यासिद्धिः । यतोऽत्र भूतले यदि घटाभावाभावः स्यात् , तर्खेतद्धटैतद्भूतलसंसर्गः स्यादित्यत्रैतद्धटैतद्भूतलसंसर्गः आपाद्यः । स चासिद्ध एव । अनिष्टप्रस जनार्थमेवोक्तत्वेन तत्र तस्य काल्पनिकत्वादिति । यदीह भूतले घटाभावाभावः, तर्खेतद्धटैतद्भूतलसंसर्गः स्यादित्यत्र तर्के आपाद्यासिद्धिर्नाम तर्कदूषणं स्यादिति न प्रथमो विकल्पोडीकारार्हः इति भावार्थ:-द्वितीये त्विष्टापादनमिति । घटाभावाभावे सति कापि भूतलादौ घटस्याप्यङ्गीकारात् ।
किञ्च घटाभावाभावः किं घटप्रागभावस्थाभावः, किंवा घटप्रध्वंसस्याभावः, किंवा घटान्योन्याभावस्याभावः । त्रयमपि न । घटप्रागभावप्रध्वंसान्योन्याभावाभाववति घटे घटस्याविद्यमानत्वेन आपाधापादकयोोप्तिभङ्गा.
१ योाप्त्यभावात् । ना' इति घ पुस्तक पाठः ।
Aho ! Shrutgyanam