________________
५०२
महाविद्याविडम्बनम् ।
८३
यत्वनिष्ठत्वरहित इति साधनेन सहोपाधेाप्तिर्नास्ति । यतः पक्षीकृतेऽत्यन्ताभावप्रतियोगित्वेऽत्यन्ताभावप्रतियोगित्वव्यतिरिक्तमेयत्वनिष्ठत्वरहितत्वमस्ति, न च प्रमेयत्वनिष्ठत्वरहितत्वं, तस्याद्यापि विवादास्पदत्वात् । तेन साधनाव्यापकश्वायमुपाधिः । तथात्र यत्प्रमेयत्वनिष्ठत्वरहितं नास्ति, तत्प्रमेयत्वाड्यावृत्तमपि नास्ति, यथा सत्त्ववाच्यत्वादि, इति सत्त्वादेविपक्षस्योपाधावय॑त्वेन पक्षेतरत्वाख्यमपि दूषणमुपाधे शङ्कनीयमिति प्रमेयत्वनिष्ठत्वविरहेणात्यन्ताभावप्रतियोगित्वं प्रमेयत्वव्यावृ. त्तमित्यनुमानस्य सोपाधित्वं स्यादेवेति तात्पर्यार्थः ।
न च केवलान्वयित्वसिद्ध्यै महाविद्यापि प्रमेयत्वादीनां प्रभवति । वक्ष्यमाणसकलदोषव्याकुलत्वादिति । एवमुदयनादीनां मतमवलम्ब्य घटादिनिधमत्यन्ताभावप्रतियोगित्वमङ्गीकृत्य अत्यन्ताभावप्रतियोगित्वं कुतश्चिद्ध्यावृ. त्तमित्यादिप्रयोगो निरस्तः।
(भुवन०) अथ प्रमेयत्वादयः संप्रतिपन्नतद्धर्मत्वरहिताधिकरणं वस्तुत्वाद्धटवदित्यादिमहाविद्यया प्रमेयत्वादीनां केवलान्वयित्वं विप्रतिपन्नं सेत्स्यतीत्याशंक्य वावक्ति-न च केवलेत्यादि । प्रमेयत्वादीनां केवलान्वयित्वसिद्धथै महाविद्यापि न च प्रभवतीति पदान्वयः । वक्ष्यमाणाः सकलदोषाः सोपाधित्वासिद्धत्वादयस्तैर्व्याकुलत्वादिति-उदयनादीनामिति । उदयनादिपूर्वाचार्याणाम् ।
वयं तु ब्रूमः-अत्यन्ताभावप्रतियोगित्वमेव नास्ति । कस्य धर्मित्वम् । अप्रामाणिकप्रतियोगिको त्यभावोऽत्यन्ताभावः, तत्प्रतियोगित्वं चाप्रामाणिकमेव। न चाप्रामाणिकनिष्ठमत्यन्ताभावप्रतियोगित्वं नाम धर्मः शक्योऽङ्गीकर्तुम् । प्रमाणविरहादिग्रस्तत्वात्।।
(भुवन०)-अत्यन्ताभावप्रतियोगित्वमेवेति। अत्यन्ताभावप्रतियोगित्वरूपो धर्म एवं यदि नास्ति, तर्हि कस्य धर्मित्वं घटते ।धर्माधारो हिधर्मीतिव्यवस्थितेः । अत्यन्ताभावप्रतियोगित्वं निष्प्रमाणकत्वान्न हेतोराश्रय इति वक्तुमत्यन्ताभावस्वरूपमाह-अप्रामाणिकेति। अप्रामाणिकं शशशृङ्गादिप्रतियोगि यस्याभावस्य स तथा-तत्पतियोगित्वामिति । अत्यन्ताभावप्रतियोगित्वमित्यर्थः-न चापामाणिकनिष्ठमिति । अप्रामाणिके खरविषाणादौ निष्ठं यदत्यन्ताभावप्रतियोगित्वं तद्रूपो धर्मः कथमङ्गीकारार्हः । तत्र प्रमाणाभावात् । ____अथ अन्योन्यप्राक्मध्वंसाभावव्यतिरिक्तः संसृज्यमानप्रतियोगिनिरूप्यः इह भूतले घटो नास्तीत्यादिप्रतीतिसाक्षिकः कुम्भादीनामभावोऽत्यन्ताभावः, तत्प्रतियोगित्वं चात्यन्ताभावप्रतियोगित्वं कुम्भादिनिष्ठमनुभवसिद्धमिति ब्रूषे, तन्न । इह भूतले घटो नास्तीत्यत्र एतद्धटैतद्भूतलाश्रयायिभावात्यन्ताभावस्यैव अनुभवसिद्धत्वात् ।
१ दोषग्रस्तत्वादि इति घ पुस्तक पाठः। २ योगी चाप्राणिक एवं । इति घ जपुस्तक पाठः ।
Aho! Shrutgyanam