________________
भुवनसुन्दरसूरिकृतटीकायुतं प्रतियोगित्वस्य व्यावृत्तिसिद्धिमात्रेण अस्यात्यन्ताभावप्रतियोगित्वं कुतश्चिव्यावृत्तमित्यादिरूपस्यानुमानस्योपपन्नत्वेन संजातत्वेन प्रमेयत्वादीनामत्यन्ताभावप्रतियोगित्वव्यावृत्तिरूपादात्सिषाधयिषितादन्यो योऽर्थः स्वस्मात्स्वव्यावृत्तिलक्षणस्तदर्थान्तरं, तेन प्रस्तत्वाच्च । चकारी हेत्वन्तरसूचनार्थः । अयमभिप्रायः । यथा मेयत्ववाच्यत्वादयः सर्ववृत्तित्वेन भवन्मते केवलान्वयिनो वर्तन्ते, तथा खरविषाणादेरप्रामाणिकस्यात्यन्ताभावोऽपि सकलवस्तुनिष्ठत्वेन केवलान्वयित्ववानेव भवति । के वलान्वयित्वेन विधुरस्त्वत्यन्ताभावो घटत्वादिप्रतियोगिको ज्ञेयः । तस्य घटे वर्तमानत्वेन सकलवस्तुनिष्ठत्वाभावात् । तेन केवलान्वयित्वविधुरात्यन्ताभावप्रतियोगित्वादेव केवलान्वयित्वविधुरात्यन्ता. भावप्रतियोगित्वस्य व्यावृत्तिः सिध्यति, न प्रमेयत्वादेः । एतदुक्तं भवति । अत्यन्ताभावप्रतियोगित्वेऽत्यन्ताभावप्रतियोगित्वं स्ववृत्तिविरोधानास्तीति स्वस्मादेव स्वव्यावृत्तिमात्रसिद्धौ अर्थान्तरमिति । अथ पुनरत्रैव हेतुदोषं भाषते-केवलान्वयिन इति । परं प्रतीति । परं प्रतिवादिनं प्रतीत्यर्थः । अथानुमानान्तरमाशङ्कते-अत्यन्ताभावेति । प्रमेयत्वाड्यावृत्तम् प्रमेयत्वव्यावृत्तम् । अत्यन्ताभावप्रतियोगित्वं प्रमेयत्वे न वर्तते इत्यर्थः । अत्यन्ताभावप्रतियोगित्वव्यतिरिक्तत्वे सति ये प्रमेयत्वनिष्ठाः प्रमेयवृत्तित्वादयस्तत्त्वरहितत्वादिति हेतुः । संप्रतिपन्ना वादिप्रतिवादिभ्यां प्रतिपन्ना ये प्रमेयत्वानिष्ठा द्रव्यत्वघटत्वादयस्तद्वदित्यर्थः । अत्यन्ताभावप्रतियोगित्वं व्यावृत्तमित्युक्ते स्वतो व्यावृत्तत्वे. नार्थान्तरत्वं स्यात् । अत उक्तं प्रमेयत्वव्यावृत्तमिति । अथ हेतुव्यावृत्त्यचिन्ता । प्रमेयत्वनिष्ठत्वरहितत्वादित्युक्ते प्रतिवादिनं भाट्टादिकं प्रत्यसिद्धिः स्यात् , तन्मतेऽत्यन्ताभावप्रतियोगित्वस्य प्रमेयत्वनिष्ठत्वात् । अत उक्तमत्सन्ताभावप्रतियोगित्वव्यतिरिक्तेति । एवमुक्ते च हेतुरुभयवादिसंमतो जातः । यतः प्रमेयत्वनिष्ठाः सत्त्वप्रमेयवृत्तित्वादयो यथा सन्ति, तथा प्रतिवादिनो मते ऽत्यन्ताभावप्रतियो. गित्वमपि प्रमेयत्वनिष्ठं विद्यते । तच्चात्यन्ताभावप्रतियोगित्वव्यतिरिक्तेति पदेन बहिष्कृतम् । तथा चात्यन्ताभावप्रतियोगित्वव्यतिरिक्ता ये मेयत्वनिष्ठाः, तत्त्वरहितत्वमत्यन्ताभावप्रतियोगित्वस्य पक्षितस्यास्त्येवेत्यर्थः । तुल्यबलत्वेन साध्याभावसाधकः प्रकरणसमापरपर्यायः सत्प्रतिपक्षः, तेन कलङ्कितमेतदिति परिहरति-नेति । प्रमेयत्वे वर्तमानमित्यर्थः-अत्यन्ताभावेति । अत्यन्ताभावप्रतियोगिस्वव्यतिरिक्ता ये प्रमेयत्वाघ्यावृत्ताः प्रमेयत्वावर्तमानाः घटत्वपटत्वद्रव्यत्वादयः, तत्त्वरहितत्वादिति हेतुः । अत्रापि प्रमेयत्वव्यावृत्तत्वरहितत्वादित्युक्तेऽत्यन्ताभावप्रतियोगित्वस्य महाविद्यावादिनो मते प्रमेयत्वाट्यावृत्तत्वेन पूर्ववद्धेतोरसिद्धता स्यात् । तत्परिहारार्थमत्यन्ताभावप्रतियोगित्वव्यतिरिक्तेति पदमुररीचक्रे । संप्रतिपन्ना ये प्रमेयत्वनिष्ठाः सत्त्ववाच्यत्वादयो धर्मास्तद्वदिति दृष्टान्तः । अत्र संप्रतिपन्नप्रमेयत्वनिष्ठवदित्यादिनेत्यत्रादिपदेन प्रमेयत्वमत्यन्ताभावप्रतियोगित्वव्यतिरिक्तैतद्धर्मत्वानाक्रान्ताधिकरणं वस्तुत्वाद्धटवदित्यादीनां संग्रहः । न केवलं सत्प्रतिपक्षत्वं, प्रमेयत्वनिष्ठत्वाभावश्वोपाधिरपीत्याह-तद्विरहेणेति । तच्छब्देन सत्प्रतिपक्षानुमाने यत्साध्यं प्रमेयत्वनिष्ठत्वलक्षणं तत्परामृश्यते । तस्य विरहोऽभावस्तद्विरहः । तेनात्यन्ताभावप्रतियोगित्वं प्रमेयत्वव्यावृत्तमित्यनुमानस्योपाघित्वं, प्रमेयत्वनिष्ठत्वाभावोऽत्रोपाधिरित्यर्थः । स चोपाधियः प्रमेयत्वंव्यावृत्तः। स प्रमेयत्वनिष्ठत्वरहित इति साध्यव्याप्तिकः । तथा योऽत्यन्ताभावप्रतियोगित्वव्यतिरिक्तप्रमेयत्वनिष्ठत्वरहितः स प्रमे
१ 'ब्देन प्रतिप इति च पुस्तकपाठः ।
Aho! Shrutgyanam