________________
महाविद्याविडम्बनम् ।
( भुवन० ) - तृतीयविकल्पस्य प्रथमविकल्पे हेतोरसिद्धिश्वेत्याह- किं चेत्यादि । अयमाशयः । एतद्वनिष्ठत्वं प्रमेयत्वादीनां प्रत्यक्षेण ज्ञातम् । तदन्यत्सकलवस्तुनिष्ठत्वं चानुमानेन । तथापि प्रमेयत्वादयः सकलवस्तुनिष्ठा एतटनिष्ठत्वे सत्येतद्भटव्यतिरिक्तसकलवस्तुनिष्ठत्वादित्यादौ एतद्घटनिष्ठेत्यादिहेतुपरिच्छेदकस्यैकस्य प्रमाणस्याभावेन मानाभावस्तदवस्थ एवेत्यर्थः ।
अथ केवलान्वथित्वस्य द्वितीयं विकल्पं निराचिकीर्षुराह - अत्यन्ताभावेत्यादि । अत्यन्ताभावस्य प्रतियोगी तन्निरूपकः । ' अभावनिरूपकः प्रतियोगी 'ति तल्लक्षणात् । तस्य भावस्तत्त्वं, तस्य विरहोऽभावः । प्रमेयत्वादीनां सर्ववृत्तित्वेन अत्यन्ताभावप्रतियोगित्वं नास्तीति तदभाव एव केवलान्वयित्वमिति द्वितीयः पक्षः, तत्रापि प्रत्यक्षं मानमुतानुमानमिति पूर्ववद्विकल्प्य तत्र प्रत्यक्षप्रमाणप्रतिक्षेपं कुरुते - प्रमेयत्वादीत्यादि । अत्रादिपदेनाभिधेयत्वादिग्रहः । प्रमेयत्वादिनिष्ठं च तदत्यन्ताभावप्रतियोगित्वं च तस्य विरहः, स एव गोचरो विषयो यस्य प्रत्यक्षस्य तत्तथा । एवंविधप्रत्यक्षस्यास्मान्प्रत्यसिद्धत्वात् । अयमर्थः । प्रमेयत्वादयोऽत्यन्ताभावप्रतियोगित्वरहितास्तदैव भवन्ति यदि प्रमेयत्वादीनामत्यन्ताभावः क्वापि न भवेत् । तथा च प्रमेयत्वादयः सर्वत्र सन्ति । एवंविधस्य प्रमेयत्वादीनामत्यन्ताभावप्रतियोगित्वविरहगोचर प्रत्यक्षस्यास्मान् प्रतिवादिनः प्रत्यसिद्धत्वमिति ।
प० २
प्रमेयत्वादयः अत्यन्ताभावप्रतियोगित्वरहिता इत्यादेः पूर्ववदप्रसिद्धविशेषणत्वादिना निरस्तत्वात् । अत्यन्ताभावप्रतियोगित्वं कुतश्चिद्व्यावृत्तं मेयत्वादित्यादेश्च भवद्भिमत केवलान्वयिधर्मेषु भवन्मतेन अनैकान्तिकत्वादिति । भ वदभिमत केवलान्वयित्वविधुरात्यन्ताभावप्रतियोगित्वादेव अत्यन्ताभावप्रतियोगित्वस्य व्यावृत्तिसिद्धिमात्रेण अस्योपपन्नत्वेन अर्थान्तरताग्रस्तत्वाच्च । केवलान्वयिनः परं प्रति अगमकत्वाच्च । अत्यन्ताभावप्रतियोगित्वं प्रमेयत्वव्यावृतम्, अत्यन्ताभावप्रतियोगित्वव्यतिरिक्तप्रमेयत्वनिष्ठत्वरहितत्वात् संप्रतिपन्नप्रमेयत्वानिष्टवदित्यपि न । अत्यन्ताभावप्रतियोगित्वं प्रमेयत्वनिष्ठम्, अत्यन्ताभावप्रतियोगित्वव्यतिरिक्तप्रमेयत्वव्यावृत्तत्वरहितत्वात्, संप्रतिपन्नप्रमेयत्वनिष्ठवत् इत्यादिना सेत्प्रतिपक्षितत्वात् तद्विरहेण सोपाधित्वाच्चेति ।
"
८१
( भुवन ० ) — द्वितीये प्रमेयत्वादिकं पक्षीकृत्यानुमानं प्रयुज्यते, अत्यन्ताभावप्रतियोगित्वं वा प्रथमं पराकरोति — प्रमेयत्वादय इत्यादि । अत्राप्यादिशब्देनाभिधेयत्वादिग्रहः । द्वितीय - पक्षं प्रतिक्षिपति — अत्यन्ताभावप्रतियोगित्वमित्यादि । अत्र यद्यन्मेयं तत्तत्कुतश्चिद्व्यावृत्तमिति नियमो नास्ति । अत्र हेतुमाह - भवदभिमतेति । भवदभिमता ये केवलान्वयिनो धर्माः प्रमेयत्ववाच्यत्वादयः ते च भवन्मतेन मेयाः सन्ति, न कुतश्चिद्व्यावृत्ता इति तेषु व्यभिचार इत्यर्थः । अत्रैवानुमाने दोषान्तरमाह — भवदभिमत केवलान्वयित्वविधुरेत्यादि । भवदभिमतं यत्केवलान्वयित्वं सर्ववस्तुनिष्ठत्वं तेन विधुरो योऽत्यन्ताभावस्तस्य यत्प्रतियोगित्वं घटत्वादीनां तस्मादेवात्यन्ताभाव
१ सत्प्रतिपक्षत्वात् इति थ पुस्तक पाठः । ११ महाविद्या०
Aho! Shrutgyanam