________________
८०
श्रीभुवनसुन्दरसूरिकृतटीकायुतं
मानेनापि च केवलेन सकलवस्तुनिष्ठत्वसिद्धिः प्रमेयत्वादीनामित्यर्थः । ' किं वा मिलिते त्यादिः ‘सिद्धिरित्यर्थः' इत्यन्तो द्वितीयो विकल्पः । केचिद् घटपटादयो भावा: प्रत्यक्षेण केचिच्च मन्दरादयोऽनुमानेन ज्ञायन्ते इति मिलितप्रत्यक्षानुमानाभ्यां प्रमेयत्वादीनां सकलवस्तुनिष्ठत्वसिद्धिरिति भावः । ' किंवा प्रत्यक्षत ' इत्यादिः 'सिद्धिरिति ' प्रान्तस्तृतीयो विकल्पः । तृतीयविकल्पस्य पर्यवसितार्थमाह-तेन प्रत्यक्षानुमानेति । तेन कारणेन प्रत्यक्षानुमानाभ्यामवगतं यदेतद्बटनिष्ठत्वे सत्येतद्भटव्यतिरिक्तस कलवस्तुनिष्ठत्वं तस्मादत्रैतद्धनिष्ठत्वे सत्येतद्वव्यतिरिक्तसकलवस्तुनिष्ठत्वमिति सप्तम्या खण्डितत्वेऽपि विवक्षितार्थप्रतिपादकत्वादखण्डं पदं ज्ञेयम् तेन कर्मधारयोपपत्तिरेवेति । अथाद्यं पक्षं प्रतिक्षिपति - नाद्य इत्यादि । अयं भावः । आद्ये विकल्पे प्रत्यक्षेणाप्यनुमानेनापि च सकलवस्तुनिष्ठत्वसिद्धिर्विवक्षिता । अत्र च प्रत्यक्षस्यैतद्भटनिष्ठत्वस्यानुमानस्य तदन्यसर्ववस्तुनिष्ठत्वस्य च ग्राहकत्वं विवक्षितमिति प्रथमविकल्पस्य व्यक्त एव निरासः । द्वितीयं निरस्यति - नापीति । मिलिते प्रत्यक्षानुमाने प्रमेयत्वादीनां सकलवस्तुनिष्ठत्वप्रमाजनके इत्यादेः साध्यस्य तथाविधहेतोरसम्भवेन निष्प्रमाणकत्वमित्यर्थः । तृतीयेऽपि किमेतद्भट निष्टत्वे सत्येतद्घटव्यतिरिक्तसकलवस्तुनिष्ठत्वं हेतुः, किं वा सकलवस्तुनिष्ठत्वमात्रमिति द्विधा विकल्प्याद्यं दूषयन्नाह - नापि तृतीय इति । अप्रसिद्धविशेषणत्वादिति । अत्र सकलवस्तुनिष्ठत्वस्य सा काप्यप्रसिद्धत्वेन पक्षस्याप्रसिद्धविशेषणत्वमित्यर्थः । अथ साध्यस्य प्रमाणतोऽप्रसिद्धत्वेऽप्रसिद्धविशेषणत्वमित्यर्थः । अथ साध्यस्य प्रमाणतोऽप्रसिद्धत्वेन पक्षस्याप्रसिद्धविशेषणत्वं, अत्र पुनः प्रमाणप्रसिद्धं सायमिति नोतो दोष इत्याशङ्कते - एतद्धनिष्ठत्वे सत्येतद्धटेत्यादि । एतद्वनिष्ठत्वं प्रमेयत्वादीनां प्रत्यक्षेणावगतम्, तद्भिन्नसकलवस्तुनिष्ठत्वं चानुमानेन । एतद्वदैतदन्यसकलवस्तुनिष्ठत्वमेव च सकवस्तुनिष्ठत्वमुच्यते । तच्च सकलवस्तुनिष्ठत्वं प्रकृतप्रमाणद्वयं प्रत्यक्षानुमानद्वयलक्षणं तेनावसितं ज्ञातमित्यर्थः । तथा च सकलवस्तुनिष्ठत्वस्य साध्यस्य प्रमाणप्रसिद्धत्वेन नाप्रसिद्धविशेषणतेति भावः । द्वितीयविकल्पदूषणमुखेनैव अप्रसिद्ध विशेषणत्वपरिहाराशङ्कामपाकुरुते — नेति । प्रमेयत्वादय इति । अत्र सकलवस्तुनिष्ठत्वमिति साध्यम् । हेतुरपि सकलवस्तुनिष्ठत्वादित्येवेति साध्यतुल्यत्वेन साध्याविशिष्ट हेतुः । यादृशं साध्यं तादृश एव हेतुरित्यर्थः । अयं भावः । प्रमाणद्वयावसितं साध्यमित्युक्तं, तत्र च प्रमेयत्वादयः सकलवस्तुनिष्ठा इत्याद्यनुमानं साध्याविशिष्टत्वादिदोषग्रस्तमिति प्रमाणद्वयावसितताभावादप्रसिद्ध विशेषणतैवेति ।
किञ्च एतद्धनिष्ठत्वे प्रत्यक्षावगतेऽपि एतद्धव्यतिरिक्तसकलवस्तुनिछत्वे चानुमानावगतेऽपि एतद्वनिष्ठत्वे सति एतद्वदव्यतिरिक्तसकलवस्तुनि - ष्ठत्वे मानाभावस्य तदवस्थत्वादिति ।
अत्यन्ताभावप्रतियोगित्वविरहः केवलान्वयित्वमितिद्वितीयपक्षेऽपि - " मानं हन्त न केवलान्वयवतो धर्मस्य सत्त्वे " इत्येतदेवोत्तरम् । प्रमेयत्वादिनिष्ठात्यन्ताभावप्रतियोगित्वविरहगोचरप्रत्यक्षस्य अस्मान्प्रत्यसिद्धत्वोत् ।
१ सिद्धत्वादिति । इति घ पुस्तक पाठः ।
Aho! Shrutgyanam