________________
१०२
महाविद्याविडम्बनम् । (भुवन०)-ममाप्रमितत्वेऽप्यन्येषां प्रमातॄणां प्रमितत्वादाश्रयत्वोपपत्तेर्न हेतोराश्रयासिद्धत्वमिति परोक्तं चेतसि निधायाजीकुर्वन्नप्याह-अस्तु वैतद्धटव्यतिरिक्तेत्यादि । एतस्मादनुमानादिति । एतद्धटव्यतिरिक्तसकलवस्तूनि प्रमेयत्वाधारः अभिधेयत्वादित्यतः । सकलवस्तुनिष्ठत्वेत्यादि । सकलवस्तुनिष्ठत्वाख्यं केवलान्वयित्वं तु कुतः प्रमाणात्प्रमेयत्वादीनां सिध्यति । अयमर्थः । एतद्धटव्यतिरिक्तसकलवस्तूनामेतदनुमानात्प्रमेयत्वमस्तु । तथापि केवलान्वयित्वं प्रमेयत्वादीनां न सिध्यति । एतद्बटस्य पक्षाद्वहिष्कृतत्वेन प्रमेयत्वादीनामेतद्भुटनिष्ठत्वस्यैवासिद्धेः सकलवस्तुनिष्ठत्वरूपकेवलान्वयित्वासिद्धिरिति ।
__ अथ एतद्धटनिष्ठत्वं प्रमेयत्वादीनां प्रत्यक्षसिद्धम् । एतद्धटव्यतिरिक्तसकलवस्तुनिष्ठत्वं तु प्रकृतानुमानात् । तेन प्रमाणव्यपर्यालोचनया प्रमेयत्वादीनां सकलवस्तुनिष्ठत्वसिद्धिरिति ब्रूषे, तन्न । प्रमाणद्वयपर्यालोचनया प्रमेयत्वादीनां सकलवस्तुनिष्ठत्वसिद्धिरिति कोऽर्थः । किं प्रत्यक्षपर्यालोचनया सकलवस्तुनिष्ठत्वसिद्धिः, अनुमानपर्यालोचनया च सकलवस्तुनिष्ठत्वसिद्धिरित्यर्थः, किंवा मिलितप्रत्यक्षानुमानपर्यालोचनया सकलवस्तुनिष्ठत्वसिद्धिरित्यर्थः । किंवा प्रत्यक्षतः एतद्धनिष्ठत्वसिद्धिः, प्रमेयत्वादीनामनुमानतश्चैतघटव्यतिरिक्तसकलवस्तुनिष्ठत्वसिद्धिः, तेन प्रत्यक्षानुमानावगतैतद्धटनिष्ठत्वे सति एतद्धटव्यतिरिक्तसलवस्तुनिष्ठत्वात्सकलवस्तुनिष्ठत्वं प्रमेयत्वादीनामनुमीयते इत्यर्थो विवक्षितः । नाद्यः। प्रत्यक्षस्यैतद्धटमात्रनिष्ठत्वग्राहकत्वात् । अनुमानस्य चैतद्धटव्यतिरिक्तसकलवस्तुमात्रनिष्ठत्वग्राहकत्वाचेति । नापि द्वितीयः। प्रत्यक्षानुमानयोर्मिलितयोः सकलवस्तुनिष्ठत्वप्रमाजनकत्वस्य निप्रमाणकत्वादिति । नापि तृतीयः । प्रमेयत्वादयः सकलवस्तुनिष्ठाः, एतद्धटनिष्ठत्वे सति एतद्धटव्यतिरिक्तसकलवस्तुनिष्ठत्वादित्यादेरप्रसिद्धविशेषणत्वात् । एतद्धटनिष्ठत्वे सति एतद्धटव्यतिरिक्तसकलवस्तुनिष्ठत्वमेव सकलवस्तुनिष्ठत्वम् , तच प्रकृतप्रमाणव्यावसितमिति नाप्रसिद्ध विशेषणतेति चेत् । न । प्रमेयत्वादयः सकलवस्तुनिष्ठाः सकलवस्तुनिष्ठत्वादित्यादेः साध्याविशिष्टत्वात् । __(भुवन०)-प्रत्यक्षानुमानयोः प्रत्येकं सकलवस्तुनिष्ठत्वसाधकत्वाभावेऽपि सम्भूय तत्साधकत्वं भविष्यतीत्याशङ्कते-अथैतद्धटनिष्ठत्वमित्यादि । वक्ष्यमाणविकल्पासहतया परोक्तं परिहरतितन्नेति । परोक्तस्यार्थ पक्षत्रैवं विधाय पृच्छति । प्रमाणद्वयेति । 'किं प्रत्यक्षे' त्यादिः ‘सिद्धिरित्यर्थः । इति पर्यन्तः प्रथमो विकल्पः । केवलेन प्रत्यक्षेणापि सकलवस्तुनिष्ठत्वसिद्धिः, अनु
१°द्वयस्य प इति घ पुस्तक पाठः।
Aho ! Shrutgyanam