________________
७८
भुवनसुन्दरसूरिकृतटीकायुतं यत्वादिनिष्ठमिति, किंवा सकलवस्तूनि प्रमेयत्वाधार इति, किं वैतद्बटव्यतिरिक्तसकलवस्तूनि प्रमेयत्वाधारः इति चतुर्धा विकल्प्य, प्रथमे दूषणमाख्याति-प्रमेयत्वादय इति । अप्रसिद्धविशेषणत्वादिति । एवंविधसाध्यस्य दृष्टान्ते काप्यप्रसिद्धत्वेन अप्रसिद्धविशेषणो नाम पक्षदोषः स्यादित्यर्थः । सकलवस्तुनिष्ठत्वस्याप्रामाणिकत्वादाश्रयासिद्धिर्द्वितीये स्यादित्युदीरयति-सकलवस्तुनिष्ठत्वमिति । अयमत्र मथितार्थः । सकलवस्तुनिष्ठत्वमिति धर्मी, प्रमेयत्वादिनिष्ठमिति साध्यो धर्मः । अत्र च सकलवस्तुनिष्ठत्वरूपधर्मस्य धर्मिण एव सिद्धौ परमतेन प्रमाणाभावात् , यस्य कस्यापि हेतो. रत्र प्रदीयमानस्याश्रयासिद्धत्वं स्यादेवेति । तृतीयः सर्वस्य पक्षतया दृष्टान्ताभावेन स्वसाध्यासाधकपक्षमात्रवृत्तिरूपानध्यवसितदोषाक्रान्त इति भाषते---सकलवस्तूनि प्रमेयत्वाधार इति । प्रमेय. त्वस्याधारः प्रमेयत्वाधारः। सकलवस्तुशब्देन सर्वस्यापि पक्षमध्ये संगृहीतत्वेन अधिकवस्त्वन्तराभावा. दत्र स्फुटमेव दृष्टान्ताभावग्रस्तत्वम् । तथा च मेयत्वादिहेतोः स्वसाध्यासाधकत्वेन पक्षमात्रवृत्तित्वेन चानथ्यवसितत्वमिति । तुर्ये विकल्पे मेयत्वं हेतुः अभिधेयत्वं वा । तत्र प्रथमं हेतुं निरस्यति एतद्धटव्यतिरिक्तेत्यादि । अत्र च पूर्वोक्तदोषपरिजिहीर्षया सकलवस्तुमध्यादेतद्धटो दृष्टान्ता पृथकृतः । साध्याविशिष्टत्वादिति । साध्यान्न विशिष्टः साध्या विशिष्टः । यथा साध्यं सकलव स्तूनां प्रमेयत्वाधारत्वादिकं विवादास्पदीभूतं, तथात्र मेयत्वादिति हेतुरपि साध्यरूपत्वेन विवादास्प दीभूत एव । तेन साध्या विशिष्टत्वं नामात्र हेतोर्दोषो भवत्येवेति । अथ द्वितीयं हेतुं निराचष्टेएतद्धटव्यतिरिक्तेत्यादि । अत्र मेयत्वादिति हेतुस्थानेऽभिधेयत्वादिति हेतुरुक्तः । तथा च न साध्या विशिष्टत्वं, तस्मिन्नेव साध्ये तस्यैव हेतोस्तथात्वात् । अत्र च तथाऽभावात् । अतो दूषणान्तरमत्राहअभिधेयत्वादित्यादि । केवलान्वयिहेतोः प्रामाण्यं विप्रतिपन्नं, प्रतिवादिनं प्रत्यनङ्गीकार्यत्वादित्यर्थः ।
किश्च एतद्धटव्यतिरिक्तसकलवस्तुशब्देन किं यावन्तो भवता प्रत्यक्षानुमानाभ्यामधिगतास्तावन्तो विवक्षिताः, किंवा यावन्तो भवता अन्यैश्च प्रत्यक्षानुमानाभ्यां ज्ञाताः ज्ञायन्ते ज्ञास्यन्ते च तावन्तः । नाद्यः । प्रत्यक्षानुमानाभ्यां यावन्तो भवताधिगतास्तावन्मात्रनिष्ठत्वसिद्धावपि सकलवस्तुनिष्ठत्वासिद्धेः । नापि द्वितीयः । भवद्धिगतवस्तुव्यतिरिक्तवस्तूनां भवदनधिगतत्वेन हेतोरप्रमिताश्रयत्वादिति ।
(भुवन० )-दूषणान्तरं भाषते-किं चेत्यादि । किं चेति दूषणान्तराभ्युच्चये । तावमात्रनिष्ठत्वसिद्धावपीति । प्रमेयत्वादीनामिति शेषः । अप्रमिताश्रयत्वादिति । अप्रमितोऽज्ञात: आश्रयोऽन्याधिगतवस्तुरूपो यस्य स तथा, तद्भावस्तत्त्वं तस्मात् । भवदधिगतवस्तुव्यतिरिक्तवस्तूनां परैख़तत्वेऽपि भवदज्ञातत्वेन भवत्प्रयुक्तहेतोरपरिज्ञाताश्रयत्वं स्यादिति भावः ।
अस्तु वा एतद्धटव्यतिरिक्तसकलवस्तुनिष्ठत्वं मेयत्वादीनामेतस्मादनुमानात् । सकलवस्तुनिष्ठत्वापरपर्यायं केवलान्वयित्वं तु कुतः प्रमेयत्वादीनां सिद्धम् ।
Aho ! Shrutgyanam