________________
प०२
महाविद्याविडम्बनम् । अतो द्रव्यत्वादावुक्तरूपकेवलान्वयित्वस्यासंभव इत्यर्थः । एवमाकाशमभिधेयमित्यत्र नित्यत्वस्यात्मादौ सपक्षे वर्तनेऽपि घटपटादावनित्ये ह्यवर्तमानत्वेन नित्यत्वस्य सकलनिष्ठत्वलक्षणं केवलान्वयित्वं नास्तीत्येतयोर्हेत्वोः केवलान्वयिष्वसंग्रहः प्रसज्येत । अयमाशयः । यदि सर्ववस्तुनिष्ठत्वं केवलान्वयित्वं स्वीक्रियते, तदा अनयोर्द्रव्यत्वनित्यत्वरूपहेत्वोः सपक्षकदेशवृत्तित्वेन केवलान्वयित्वेऽपि सर्ववस्तुनिष्ठत्वाभावेन केवलान्वयिहेतुष्वसंग्रहः स्यात्, केवलान्वयिहेतुषु च संग्रहीतावेतौ हेतू इति । महाविद्यादीनां साध्यानां केवलान्वयित्वाधारत्वात्तद्वयाप्यस्य मेयत्वादेहेतोः केवलान्वयित्वमिति यो द्वितीयो विकल्पस्तमपि प्रत्याचष्टे-नापि द्वितीय इति । केवलान्वयित्वस्य अद्याप्यनिरुक्तरिति । केवलान्वयित्वस्याद्यापि भवता निश्चितोक्तेरप्रतिपादनादित्यर्थः । अत एव केवलान्वयित्वं द्विधा विकल्पयन्नाह-कि सकलवस्तुनिष्ठत्वमित्यादि । अत्यन्ताभावप्रतियोगित्वविरह इति । प्रमेयत्वादीनामत्यन्ताभावस्य यत्प्रतियोगित्वं तस्य विरहोऽभाव इति यावत् । प्रमेयत्वादीनां सर्वत्र वृत्तित्वेनात्यन्ताभावः कापि नास्तीति तद्रूपं वा केवलान्वयित्वम् । आद्यपक्षदूषणे प्राचीनाचार्यवचनमुदाहरति
मानं हन्त न केवलान्वयवतो धर्मस्य सत्त्वेऽपि च
स्वस्मिन्वृत्तिरवर्त्तनेन सहिता व्याघातसंत्रासिता । साध्याभाववदाश्रितत्वविरहो धूमादिलब्धस्थिति
ाप्तिः सा नहि केवलान्वयवता धर्मेण संगच्छते ॥ इति । हन्तेत्यामन्त्रणे । हन्त भोः केवलान्वयवतो धर्मस्य सत्त्वे मानं नास्ति । 'मानाधीनामेयसिद्धिरिति वचनादत्र प्रकृतधर्मे मानाभावेन प्रकृतधर्मरूपमेयासिद्धिरित्यर्थः । शेषवृत्तव्याख्यानं तु परिपाट्या ग्रन्थकारः स्वयमेव करिष्यतीति ।
तथाहि-न तावत्प्रमेयत्वादीनांसकलवस्तुनिष्ठत्वे प्रत्यक्षं मानम् । सकलवस्तुनिष्ठत्वगोचरस्य प्रत्यक्षस्य परं प्रत्यसिद्धेः। नाप्यनुमानम् । मेयत्वादयः सकलवस्तुनिष्ठा इत्यादेरप्रसिद्धविशेषणत्वात् । सकलवस्तुनिष्ठत्वं प्रमेयत्वादिनिष्ठमित्यादेश्वाश्रयोसिद्धेः । सकलवस्तूनि प्रमेयत्वाधार इत्यादेश्च दृष्टान्ताभावग्रस्तत्वात् । एतद्धटव्यतिरिक्तसकलवस्तूनि प्रमेयत्वाधारः प्रमेयत्वादित्यादेश्च साध्याविशिष्टत्वात् । एतद्धटव्यतिरिक्तसकलवस्तूनि प्रमेयत्वाधारः अभिधेयत्वादित्यादेश्व केवलान्वयित्वेन केवलान्वयिप्रामाण्ये विप्रतिपन्नं प्रत्यनुपादेयत्वादिति ।
__(भुवन०)-तत्र प्रत्यक्षं प्रमाणमुतानुमानं वेति विकल्प्य प्रथमं प्रत्याह-न तावदित्यादि। परं भाट्टादिकं प्रति सकलवस्तुविषयप्रत्यक्षाभावात् । तैः सर्वज्ञानङ्गीकारादिति । द्वितीयं दूषयतिनाप्यनुमानमित्यादि । प्रमेयत्वादयः सकलवस्तुनिष्ठा इति साध्यम्, उत सकलवस्तुनिष्ठत्वं प्रमे.
१ प्रमेय इति ज. घ. पुस्तक पाठः । २ यासिद्धत्वात् । स इति ज. घ. पुस्तक पाठः । ३ 'र: मेयं ति ज घ पुस्तक पाठः ।
Aho ! Shrutgyanam