________________
अथ द्वितीयः परिच्छेदः।
अथ सर्वजगन्नाथं प्रणम्य करुणानिधिम् । केवलान्वयिभङ्गार्थमर्थये पार्वतीपतिम् ॥ १॥
द्वितीयपरिच्छेदः । (भुवन० )-अथ द्वितीयपरिच्छेदव्याख्या प्रक्रम्यते । “ आदावन्ते मध्ये च कल्पितमङ्गलानि शास्त्राणि प्रथन्ते " इति न्यायात् मध्यमङ्गलमाचरन्नाचष्टे-अथ सर्वजगन्नाथमित्यादि ॥ १ ॥ ___ केवलान्वयिहेतुविशेषो महाविद्या इत्युक्तम् । तन्न । केवलान्वयिहेतोरेव निर्वस्तुमशक्यत्वात् । तथाहि, किं केवलान्वयित्वाधारो हेतुः केवलान्वयी, किं वा केवलान्वयित्वाधारव्याप्यः । नाद्यः । परमाणुः प्रत्यक्षः द्रव्यत्वात् घटवदिति, आकाशं अभिधेयं नित्यत्वात् गोत्ववदित्यादीनामसंग्रहप्रसङ्गात् । नापि द्वितीयः । केवलान्वयित्वस्याद्याप्यनिरुक्तेः । किं सकलवस्तुनिष्ठत्वं केवलान्वयित्वं, उत अत्यन्ताभावप्रतियोगित्वविरहः । आये दूषणमाह
“मानं हन्त न केवलान्वयवतो धर्मस्य सत्त्वे " इति । (भुवन०)-अथ महाविद्यालक्षणस्मारणपूर्व तल्लक्षणखण्डनमेव प्रक्रमते-केवलान्वयीत्यादि । निर्वक्तुमिति । निश्चयेन वक्तुं निर्वक्तुम् । केवलान्वयिहेतोनिरुक्तेरेव कर्तुमशक्यत्वादित्यर्थः। केवलान्वयिभनाय द्वेधा विकल्पयति-केवलान्वयित्वाधारो हेतरिति । केवलान्वयिहेतौ केवला. न्वयित्वं नाम धर्मोऽस्ति, तस्याधारो हेतुः किं केवलान्वयी, किं वा केवलान्वयित्वाधारव्याप्यः । केवलान्वयित्वाधारो महाविद्या दिसाध्यम् । यतो यथा केवलान्वयिहेतौ केवलान्वयित्वं धर्मस्तथा केवलान्वयिनि महाविद्यादिसाध्येऽपि केवलान्वयित्वं धर्मोऽस्त्येव । अतः केवलान्वयित्वाधारोऽत्र महाविद्यादिसाध्यमेव । तेन व्याप्यः प्रमेयत्वादिहेतुः, स वा केवलान्वयीत्यर्थः । तत्राद्यं विघटयतिनाद्य इति । परमाणुः प्रत्यक्ष इति । अत्र परमाणुरित्युपलक्षणादन्ये चर्मचक्षुषामदृश्या व्योमा. त्मादयोऽपि पक्षतुल्यत्वेन ग्राह्याः । यथा व्योम प्रत्यक्षं द्रव्यत्वाद्धटवदित्यादि, इति तेषां पक्षतुल्य. त्वेन न तैर्व्यभिचाराशङ्कापि चिन्तनीया । अत्र च यद् द्रव्यं तत्प्रत्यक्षमिति व्याप्तिसद्भावेऽपि रूपरसादिगुणेषु द्रव्यत्वाभावेन सपक्षैकदेशवृत्तित्वाद् द्रव्यत्वस्य केवलान्वयित्वाधारत्वम् । यतः सकलवस्तुनिष्ठस्यैव धर्मस्य त्वया केवलान्वयित्वमभीप्सामासे । तच्च द्रव्यत्वस्य रूपादिसपक्षावृत्तित्वेन नास्ति ।
१ श्रीमदानन्दपूर्णविरचिता टीका प्रथमपरिच्छेदान्तैवोपलब्धा । द्वितीयतृतीयपरिच्छेदयोष्टीका नोपलब्धेति नात्र प्रकाशिता । २ महाविद्या इत्युक्तः । नासौ युक्तः इति घ पुस्तकपाठः । ३ आये पक्षे दुष इति ज पुस्तकपाठः।
Aho ! Shrutgyanam