________________
प०१
महाविद्याविडम्बनम् । द्वितीयं तु पक्षं महाविद्यागोचरसुगमदूषणव्युत्पादनेन निराकरिष्यामः॥ इति श्रीहरकिङ्करन्यायाचार्यपरमपण्डितभट्टवादीन्द्रविरचिते महाविद्या
विडम्बने दूष्येविवेको नाम प्रथमः परिच्छेदः ॥ १॥ (आनं०)-अप्रतिभानिग्रहमात्मनः परिहर्तु महाविद्या ज्ञातव्या । अतोऽपि तद्वयाख्यानमपयुक्तमित्याह-यद्वति । पक्षे साध्यवतो धर्मिणो धर्मः केवलान्वयी व्यापकः साध्यः । पक्षे च तद्भिन्ने तदन्यस्मिंश्च वृत्तित्वरहितेन अनुरञ्जितः स्वस्वेतरवृत्तित्वानाक्रान्त इत्यर्थः ।
इति महाविद्याविडम्बनव्याख्याने श्रीमदानन्दपूर्णविरचिते प्रथमः परिच्छेदः । (भुवन०)-अज्ञाननिग्रहमात्मनः परिहतु महाविद्या ज्ञातव्या । अतोऽपि तद्व्याख्यानमपयक्तमित्याह-यद्वेति । यद्वा वादिनः सम्यक् साधनापरिस्फूर्ती सम्यक् स्वपक्षसाधनानुत्पत्तौ महाविद्यापि प्रयोक्तव्या । अत्रार्थे दृष्टान्तमाचष्टे-सम्यग्दूषणेत्यादि । अयं भावः । यथा सम्यग दृषणापरिस्फुरणे जात्यादिः, आदि शब्दाच्छलादिः प्रयुज्यते । अनित्यः शब्दः कृतकत्वात् घटवदित्यादावनुमाने सम्यक् हेत्वाभासादिदूषणाप्रतिभाने यदि अनित्यघटसाधात् कृतकत्वात् अनित्यः शब्दः स्यात्तर्हि नित्याकाशसाधात् अमूर्तत्वान्नित्योऽपि किं न स्यादिति साधर्म्यसमादिजातिः प्रतिवादिना यथा प्रयुज्यते, तद्वद्वौद्धादीन् प्रति महाविद्यापि प्रयोज्येति तद्व्याख्यानमुपयुक्तमेवेति । अत्रार्थे शिवादित्यमिश्रोक्तमवतारयति-यदाहुरित्यादि ।
पक्षः प्रकृतः शब्दादिः । तद्भिन्नाः शब्देतरे नित्यानित्यपदार्थाः । तयोर्ये वर्तन्ते धर्मास्तेषु तद्वत्तित्वं धर्मः, तेन यद्रहितत्वं तेनानुरजितो मिश्रितः स्वस्वेतरवृत्तित्वानाक्रान्त इत्यर्थः । साध्यवतो धर्मिणोऽनित्यस्य धर्मो मेयत्वादिहेतुव्यापकः साध्यः साधनीयः । पक्षे इति शेषः । अनित्यनिष्ठसाध्य इति भावः । केन हेतुना साध्यः इत्याह-मेयत्वात् । मानविषयो मेयः, तत्त्वात् । मेयत्वादित्युपलक्षणम् । तेन सत्त्वज्ञेयत्ववाच्यत्वादयोऽपि हेतवो ग्राह्याः । ननु किं वादिना सर्वदा महाविद्या प्रयोक्तव्या, यद्वा प्रतिवादिनः प्रतिभाक्षये कर्तव्ये, स्वस्य प्रतिभाक्षये जाते वेत्याशङ्कय, द्वितीयं द्विधाप्यङ्गीकरोति-प्रतिभाक्षये इति । आद्ये पक्षे प्रतिवादिनः प्रतिभाक्षये कर्तव्ये इति व्याख्येयम् । द्वितीये वादिनः प्रतिभाक्षये जाते सतीति । इयं च कारिका महाविद्याग्रन्थान्तरस्थिता, अत्र ग्रन्थे " अयं शब्दः स्वस्वेतरे" त्यादि प्रथममहाविद्यार्थसङ्ग्रहप्रतिपादिकावगन्तव्या ।
द्वितीयं तु पक्षमित्यादि । महाविद्यार्थवेदिनोऽपि प्रतिवादिनस्तहूषणाप्रतिभानरूपं द्वितीयं पक्षम् । महाविद्यागोचरसुगमदूषणव्युत्पादनेनेति । केवलान्वयिभञ्जनासिद्धत्वाद्यद्भावनरूपेणातनपरिच्छेदयोनिराकरिष्याम इत्यर्थः ।
इति श्रीजिनशासन-गगनाङ्गणनभोमणिषड्दर्शनीरहस्याभिज्ञशिरोमणि-सुविहिताचार्य. चक्रचूडामणि-श्रीतपागच्छशृङ्गारहारभधारक-प्रभुश्रीसोमसुन्दरसूरिशिण्यश्रीभुवनसुन्दरसूरिविरचितायां महाविद्याविडम्बनवृत्ती व्याख्यानदीपिकायां
दूण्यविवेकव्याख्यानो नाम प्रथमः परिच्छेदः समाप्तः ॥
१ 'नेन आश्रयिष्यामः इति ग पुस्तकपाठः । २ दृष्यविकासो नार्म इति घ पुस्तकपाठः ।
Aho! Shrutgyanam