________________
आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं त्याशङ्कयाह-खण्डनेति । मम पुनः किंविशिष्टस्य । महाविद्याप्रयोगाणां यत् खण्डनं तत्र आखण्डलस्य शक्रस्य । यथा शको वज्रेण दुर्द्धरभूधरप्रकरखण्डनपण्डितस्तथा अहमपि स्वशक्तिव्यक्तिप्रयुक्तयुक्त्युक्तिपतथा महाविद्याप्रयोगखण्डनपण्डितिमप्रचण्ड एवेत्यर्थः । आद्यविशेषणेन सर्वमहाविद्याव्यवस्थापनविषये स्वस्य परमं कौशल्यमाविश्चक्रे । द्वितीयविशेषणेन तु तत्प्रयोगखण्डनापाण्डित्यमिति परमार्थः ॥ ३॥
___ महाविद्यादूषणे प्रवृत्तस्य तद्व्याख्यानमैसंगतमिति चेत् । न । महाविद्यावादिना किं सभ्यविदितार्थप्रतिवादिदुरधिगममहाविद्याप्रयोगानन्तरं अज्ञानेन प्रतिवादिनं निगृह्यात्मनो विजयो भावनीयः, किं वा प्रतिवादिविदितार्थमहाविद्यार्दूषणाऽप्रतिभया प्रतिवादिनं निगृह्यात्मनो विजयो भावनीयः । नाद्यः यतैः।
_इति गूढमहाविद्याव्याख्या कौतूहलच्छलात् ।
दूरे निरस्तमस्माभिरज्ञानं प्रतिवादिनः ॥४॥ (आनं० )-" उन्मीलन्ति महाविद्यादोषकैरवकोरकाः।" इति प्रतिज्ञाविरोधं शङ्कतेमहाविद्यादूषणेति । महाविद्यावादिना प्रतिवादिन्युद्भाव्यमानमज्ञाननिग्रहं खण्डयितुं महाविद्याव्याख्यानमसंगतमिति मत्वा परिहरति नेति ।
(भुवन०)-अथ ' उन्मीलन्ति महाविद्यादोषकैरवकोरकाः ' इति प्रतिज्ञाविरोधं महाविद्याव्याख्यातुः शङ्कते-महाविद्यादूषणेति । महाविद्यावादिना प्रतिवादिन्युद्भाव्यमानमज्ञाननिग्रहं खण्डयितुं महाविद्याव्याख्यानं सङ्गतमिति मत्वा विकल्पद्येन परिहरति-महाविद्यावादिनेत्यादि। महाविद्यावादिना पूर्वपक्षवादिना वैशेषिकादिना किं सभ्यैर्विदितार्था ज्ञातार्थाः प्रतिवादिभिश्च दुरधिगमा दुर्जेया या महाविद्यास्तासां प्रयोगानन्तरमज्ञानेन महाविद्याया अपरिज्ञानेन प्रतिवादिनं निगृह्यात्मनो विजयो भाव्यः । द्वितीयविकल्पमाह-किं वेत्यादि । किं वा प्रतिवादिना विदितार्था ज्ञातार्था या महाविद्यास्तासां यहूषणं तदप्रतिभया प्रतिवादिन एव तदुत्पादनाशत्तया प्रतिवादिनं निगृह्य स्वस्य विजयो भाव्यः । तत्र प्रथमविकल्पमुत्थापयति-नाद्य इति ।
अत्र हेतुमभिधत्ते–यत इत्यादि । यतः कारणादित्येवं प्रकारेण गूढमहाविद्याव्याख्यां कुर्वद्भिः अस्माभिः प्रतिवादिनो महाविद्याविषयमज्ञानं दूरे निरस्तमित्यर्थः ॥ ४ ॥
यद्वा सम्यक्साधनापरिस्फूतौ सौगतादीन् प्रति महाविद्याः प्रयोक्तव्याः, सम्यग्दूषणापरिस्फूर्ती जात्यादिवत् , इति तयाख्यानं नानुपयोगि । यदाहुः शिवादित्यमिश्राः
"पक्षतद्भिन्नवृत्तित्वरहितत्वानुरञ्जितः ।
धर्मः साध्यवतः साध्यो मेयत्वात्प्रतिभाक्षये ॥” इति । १ नमनुपपन्नमिति इति ग पुस्तकपाठः। २ 'दूषणेऽप्रति इति घ पुस्तकपाठः । ३ यतः एवम् इति इति घ पुस्तकपाठः । ४ महाविद्यापि प्रयोक्तव्या । स इति थ पुस्तकपाठः ।
Aho ! Shrutgyanam