________________
५०१
महाविद्याविडम्बनम् । माकाशगतैकत्वव्यतिरिक्तेतिग्रहणम् । एकत्वस्य स्वान्यत्वायोगादेतच्छब्दमात्रनिष्ठान्नित्यनिष्ठत्वरहितात् अन्यत्वमेतदनित्यं गमयेदिति भावः ।
( भुवन० )-इदानीं विपक्षनिष्ठं धर्म पक्षीकृत्य प्रवर्तमानमहाविद्याभेदा यथा-आकाशगतमेकत्वमाकाशगतैकत्वव्यतिरिक्तनित्यनिष्ठत्वरहिततच्छन्देतरानित्यनिष्ठत्वरहितधर्मान्यदिति । आकाशगतं यदेकत्वं एकत्वसंख्यावत्त्वं, तद्व्यतिरिक्तत्वे सति ये नित्यनिष्ठाः तत्त्वरहितश्चासौ, एतच्छब्दादितरे येऽनित्यास्तन्निष्ठत्वरहितश्च यो धर्मस्तस्मादन्यदित्यर्थः । आकाशगतमेकत्वमन्यदित्युक्ते गगनान्यत्वेन सिद्धसाधनमत उक्तं धर्मान्यदिति । तथा चोच्यमाने घटत्वान्यत्वेनैवार्थान्तरत्वम् , अतस्तद्व्यावृत्त्यर्थमेतच्छब्देतरानित्यनिष्ठत्वरहितेति पदमुपाददे । आत्मत्वाद्यन्यत्वव्यावृत्तये च नित्यनिष्ठत्वरहितेत्यतीचक्राणम् । एतावत्येव च प्रणिगद्यमाने उभयप्रसिद्धदृष्टान्ताभावेनाप्रसिद्धविशेषणत्वं बोभूयते । अतस्तब्यवच्छेदार्थमाकाशगतैकत्वव्यतिरिक्तेति पदं निदधे । इति व्यावृत्तिचिन्ता ॥ अत्र प्रथमविशेषणेन आकाशगतैकत्वं विना सर्वेऽपि नित्यधर्मा निषिद्धाः। द्वितीयविशेषणेन च शब्दधर्मान् विना सर्वेऽप्यनित्यधर्मा निषिद्धाः । तत्राकाशगतैकत्वव्यतिरिक्तनित्यनिष्ठत्वरहितः आकाशगतैकत्वं वा, अनित्यनिष्ठो वा । तत्राद्यान्यत्वं पक्षे नोपसंहतुं शक्यम् । आकाशगतैकत्वमाकाशगतैकत्वादन्यदिति व्याघातात् । द्वितीयस्तु द्वेधा स्यात्, एतच्छब्देतरानित्यनिष्ठो वा, एतच्छब्दमात्रनिष्ठो वा । प्राच्यस्तु एतच्छब्देतरानित्यनिष्ठत्वरहितेतिद्वितीयविशेषणेन निरस्तः । एतच्छन्दमात्रनिष्ठात्तु नित्यनिष्ठत्वरहितेत्याद्यविशेषणांशविशिष्टादेतच्छब्दत्वादेः पक्षस्यान्यत्वं तदैव स्यात्, यद्यनित्य एतच्छब्दः स्यादित्येतच्छब्दानित्यत्वसिद्धिरिति भावः । आकाशगतैकत्वरूपपक्षान्यत्वधर्मेण च सर्वत्र शब्दघटाकाशादौ तद्धमेषु च साध्यानुगमो द्रष्टव्यः ॥ १॥
इति विपक्षनिष्टधर्मपक्षीकरणप्रवृत्तमहाविद्या प्रादर्शि । तत्प्रदर्शने चादिपदसूचिता अपि महाविद्या न्यरूप्यन्तेति महाविद्याप्रयोगवक्तव्यता समाप्ता ।।
महाविद्यासमुद्रस्य खण्डनाखण्डलस्य च।
मम नूतनमार्गेऽपि न च किञ्चिदगोचरः॥ ३ ॥ (आनं०)-महाविद्याया आत्मनश्च सर्वविषयत्वमन्येभ्योऽतिशयमाह-महाविद्यासमुद्रस्येति ॥ १॥
(भुवन०)-अथात्मनः सर्वविषयमन्येभ्योऽतिशयं श्लोकेनाविर्भावयति-महाविद्यासमुद्रस्येत्यादि । महाविद्योत्थापनप्रवृत्तस्य वादीन्द्रस्य नूतनमार्गे नवीनमहाविद्याप्रकारदर्शनरूपेऽपि न किञ्चिन्महाविद्याचक्रमार्गप्रवर्तनादिकमगोचरोऽविषय इति संटकघटना । मम किंविशिष्टस्य । महाविद्यासमुद्रस्येति । परप्रयुक्तमहाविद्यानामर्थपरिज्ञानान्नवीनतदनुमानविधानाच्च तत्समुद्रस्य । यथा समुद्रे रत्नजलादिकं सर्व लभ्यते तथा महाविद्याव्यवस्थापनतदर्थपरिज्ञानादिकं महाविद्यास्वरूपं सकलं मयि प्राप्यते इत्यर्थः । एतावता महाविद्यापरिज्ञानाद्येव समस्ति, तद्दूषणोत्पादनशक्तिस्तु न भविष्यती
१ मार्गस्य न हि कश्चिद इति घ पुस्तकपाठः । २ विधावक्र इति च पुस्तकपाठः । १० महाविद्या०
Aho ! Shrutgyanam