________________
आनन्दपूर्ण भुवनसुन्दरसूरिकृतटीकायुतं
१ घटत्वं घटत्वव्यतिरिक्तशब्देतरानित्यनिष्ठत्वरहितानित्यनिष्ठान्यत् मेयत्वात् घटवदित्यादयः ॥ १ ॥
१ ( आनं० ) — घटत्वव्यतिरिक्तेति । घटत्वव्यतिरिक्तशब्देतरानित्यनिष्ठत्वरहितश्च घटत्वं वा, शब्देतरा नित्यवृत्तिरहितो वा । आद्यान्यत्वं व्याहतं द्वितीयस्तु अनित्यनिष्ठत्वविशेषणः सिध्य-ननित्यत्वं शब्दे गमयेदिति भावः । आदिपदेन घटरूपं स्वव्यतिरिक्तशब्देतरा नित्यनिष्ठत्वरहितानि - त्यनिष्ठान्यत् मेयत्वाद्धटवदित्यादिसंग्रहः ।
७२
(भुवन० ) - अथ सपक्षनिष्ठं धर्मे पक्षीकृत्य प्रवर्तमानमहाविद्याभेदा यथा - घटत्वं घटत्वव्यतिरिक्तेत्यादि । शब्दादितरे च ते अनित्याश्च शब्देतरा नित्याः । तेषु निष्ठाः पटत्वस्तम्भत्वादयः । घटत्वव्यतिरिक्ताश्च ते शब्देतरानित्यनिष्ठाञ्च । तेषां भावः तत्त्वम् । तेन रहितः । अनित्ये पटादौ निष्ठा येषां ते तथा । घटत्वव्यतिरिक्तशब्देतरा नित्यनिष्ठत्वरहितश्चासौ अनित्यनिष्ठश्च । ततोऽन्यत् घटत्वमित्यर्थः । घटत्वमन्यदित्युक्ते ज्ञानादेरन्यदिति सिद्धसाधनम् । अत उक्तं - अनित्यनिष्ठान्यदिति । एवमपि पटत्वान्यत्वादिना अर्थान्तरत्वम् । अत उपात्तं - शब्दे तरानित्यनिष्ठत्वरहितेति । शब्देत नित्यनिष्ठत्वरहिता नित्यनिष्ठान्यदित्युक्ते च अप्रसिद्धविशेषणत्वम् । शब्दानित्यत्वसिद्धेः प्रागेवंरूपसाध्यासिद्धेः । अतो घटत्वव्यतिरिक्तेति पदग्रहणम् । इति व्यावृत्तिचिन्ता || अत्राद्यविशेषणेन घटत्वव्यतिरिक्तेत्यस्य शब्देतरेत्यस्य च भणनादू, घटत्वं शब्दत्वधर्माश्च मुक्त्वा अन्ये अनित्यपदार्थधर्माः सर्वेऽपि निषिद्धाः, अनित्यनिष्ठेति द्वितीय विशेषणेन च नित्यधर्मा अपि । इति विशेषणद्वयेन घटत्वशब्दनिष्ठव्यतिरिक्तनित्यानित्यनिष्ठसर्वधर्मनिषेधे सति द्विधा धर्मा अवशिष्यन्ते घटत्वं वा शब्दमात्रनिष्ठाः शब्दत्वादयो वा । तत्र घटत्वं घटत्वादन्यदिति न संभवति । तस्माच्छब्दमात्रनिष्ठाच्छन्दत्वादेर्घटत्वमन्यदिति सिध्यति । शब्दत्वादेश्वानित्यनिष्ठेतिद्वितीयविशेषणविशिष्टत्वं तदैव स्यात्, यद्यनित्यः शब्दः स्यादितिशब्दानित्यत्वसिद्धिरिति । इह च पक्षघटत्वान्यत्वमादाय घटादौ सर्वत्र साध्यप्रसिद्धिरन्वेषणीया । घटवदित्यादयः इत्यत्रादिपदेन १ 'घटरूपं स्वव्यतिरिक्तशब्देतरा नित्यनिष्ठत्वरहिता नित्यान्यत् मेयत्वाद्घटवत्' २ 'घटगन्धो घटगन्धव्यतिरिक्तशब्देतरा नित्यनिष्ठत्वरहितानित्यनिष्टान्यत् ज्ञेयत्वाद्घटवत् ' इत्यादिसङ्ग्रहः ॥ १ ॥
इति सपक्षनिष्ठधर्मपक्षीकरणप्रवृत्ता महाविद्या न्यरूपि ।
अथ विपक्षनिष्ठं धर्मं पक्षीकृत्य प्रवर्तमाना महाविद्याभेदा यथा१ आकाशगतमेकत्वं आकाशगतैकत्वव्यतिरिक्तनित्यनिष्ठत्वरहितैतच्छब्देतरानित्यनिष्ठत्वेरहितधर्मान्यत्, मेयत्वात् घटवदिति ॥ १ ॥
१ ( आनं० ) - आकाशगतैकत्वव्यतिरिक्ते सति नित्यनिष्ठत्वर हितश्चासावेतच्छब्देतरानित्यनिष्ठत्वरहितच धर्मस्तस्मादन्यदित्यर्थः । आकाशगतमेकत्वमन्यदित्युक्ते गगनान्यदिति सिद्धमत उक्तम्धर्मान्यदिति । घटत्वव्यावृत्त्यर्थमनित्यनिष्ठत्वरहितग्रहणम् । सुखादिव्यावृत्त्यर्थं नित्यनिष्ठत्वरहितग्रहणम् । अत्र क्वचिदनित्यत्वसिद्धिनिवारणाय - एतच्छब्देतरेति । अप्रसिद्धविशेषणत्वपरिहारार्थ
१ 'निष्ठत्वधर्मा' इति ज पुस्तकपाठः ।
Aho! Shrutgyanam