________________
भुवनसुन्दरसूरिकृतटीकायुतं
( भुवन ० ) - " सर्वव्याख्या विकल्पानां द्वयमिष्टं प्रयोजनम् । पूर्वत्रापरितोषो वा व्याप्तिर्वा विषयान्तरे ।। "
इति विषयान्तरव्याप्त्यर्थे पक्षान्तरमाह — यद्वा एतदित्यादि । तदुभयव्यतिरिक्तो भूतभाव्येतदाश्रयाश्रयिभावद्वयभिन्नः आश्रयाश्रयिभावो न कदापि जातो न भावी यश्च वर्तमानः सोऽपि च । तस्यापि जन्मनोऽतीतत्वेन जातत्वात् । तेन तदुभयव्यतिरिक्तेत्यनेन भूतभाविभवद्व्यतिरिक्तोऽसन्नेवाश्रयाश्रयिभावोऽप्रामाणिक उपात्तः । ततस्तस्याभावोऽत्यन्ताभाव इति पक्षान्तरार्थः । एतस्मादनन्तरोक्तपक्षस्य निषेधमुख रचनावैचित्र्येणैव भेदो, न त्वर्थत इति भावः । कथं तर्ह्याश्रयाश्रयिभावस्य प्राक्प्रध्वंसाभावयोर्व्यवस्था इत्यत आह--यः पुनरेतदित्यादि ।
अथ यदि इह भूतलेऽयं घटो नास्तीत्यत्र एतद्भद्वैतद्भूतलयोराश्रयाश्रयि-. भावो निष्प्रमाणकः प्रतिषिध्यते, तर्हि घटोत्पत्तेः प्रागूर्ध्वं च घटावयवेषु घटो नास्तीत्यत्रापि एतद्वद्वावयवैतद्धदयोराश्रयाश्रयिभाव एव तत्कालीनो निष्प्रमाणकः प्रतिषिध्यतामिति गतं प्राक्प्रध्वंसाभावाभ्यामित्युच्यते, तत्राप्योमित्येवोत्तरम् । द्विविध एव ह्यभावः, अन्योन्याभावोऽत्यन्ताभावश्चेति । यश्च कार्योत्पत्तिपूर्वक्षणे कार्यसमवायिकारणयोराश्रयाश्रयिभावो निष्प्रमाणकः, तस्यात्यन्ताभावः प्रागभाव इत्युच्यते । यश्च कार्योत्पत्त्युत्तरक्षणे कार्यसमवायिकारणयोराश्रयाश्रयिभावो निष्प्रमाणकः, तस्यात्यन्ताभावः प्रध्वंस इत्युच्यते शास्त्रकारैः, न तु प्राकूप्रध्वंसाभावौ अत्यन्ताभावाद्भिन्नाविति ।
( भुवन ० ) - अथ परो व्यवस्थाभङ्गं शङ्कते - अथ यदीत्यादि । यद्येवंविधः आश्रयाश्र• यिभावो निष्प्रमाणकः सन् प्रतिषिध्यते, तदा अतिप्रसङ्गात्प्राक्प्रध्वंसाभावयोर्व्यवच्छेद एव न स्यादित्याह-तहींत्यादि । घटो यदोत्पन्नो नास्ति तदा मृद्रूपेषु घटावयवेषु यदा घटो विनष्टस्तदा कपालरूपेषु घटावयवेषु च घटो नास्तीत्यत्राप्येतद्वद्वैतद्भटावयवयोराश्रयाश्रयिभाव एव तत्कालीनो घटानुत्पादविनाशकालिको भवद्युक्त्या निष्प्रमाणकः सन् प्रतिषिध्यताम् । तस्य च प्रतिषेधे प्रागभावप्रध्वंसाभावावेव प्रतिषिद्धौ स्याताम् । अप्रामाणिकाभावस्य अत्यन्ताभावरूपत्वेन स्वीकारात् । तथाच सति गतमेव प्रागभावप्रध्वंसाभावाभ्यामित्यर्थः । इति पूर्वपक्षिणोक्ते सिद्धान्त्याह-- ओमिति । यस्वयाभ्यधायि तदेवमेव । एतदेवोपपादयति - द्विविध इत्यादि । अन्योन्याभावात्यन्ताभावरूपौ ardarera raaraणां संमतौ । प्राक्प्रध्वंसाभावौ तु अत्यन्ताभावरूपावेव, न तु भिन्नौ । एतदेव दर्शयति—यश्चेति । घटपटादिकं यत्कार्यं तस्योत्पत्तिपूर्वक्षणेऽनुत्पत्तिक्षणे । कार्यसमवायीति । कार्य घटपटादिकं, समवायिकारणं मृत्तिकातन्त्वादि, तयोर्य आश्रयाश्रयिभावोऽसद्भूतत्वान्निष्प्रमाणकस्तस्यात्यन्ताभावः प्रागभाव इति । यश्चेति । कार्यस्य घटादेरुत्पत्त्युत्तरक्षणे विनाशक्षणे कार्यसमवायिकारणयोर्घटमृदादिरूपयोराश्रयाश्रयिभावस्यात्यन्ताभावः प्रध्वंस इति ।
१ इत्युच्येत तत्रा इति थ पुस्तकपाठः । २ कारणानि मृत्तिकातन्तुरूपाणि त° इति छ. द. पुस्तकपाठः ।
Aho! Shrutgyanam