________________
महाविद्याविडम्बनम् ।
९१
या अनुत्पत्तिः प्रागभावः । स च निराश्रय एव । घटो नोत्पद्यते इत्येव प्रतीतेः । एवं विनाशः प्रध्वंसः । सोऽपि निराश्रय एव । घटो विनष्ट इत्याश्रयानवच्छेदेनैव प्रतीतेः । यस्तु समवायिकारणनिष्ठः कार्योत्पत्तेः प्रागूर्ध्व च इदानीं घटो नास्तीत्यभावः प्रतीयते स तूक्तरीत्या अत्यन्ताभाव एवेति ।
( भुवन ० ) - परमतप्रसिद्धथा अभावस्वरूपं निरूपयति-- यद्वा अनुत्पत्तिरित्यादि । घटादे - रनुत्पत्तिः प्रागभावः । अनुत्पत्तेरपि कार्यसमवायिकारणयोराश्रयाश्रयिभावाभावादत्यन्ताभावतो न भेद इत्याह-- स चेति । आश्रयानवच्छेदेनेति । आश्रयस्यापरिज्ञानेन समवायिकारणसंसर्गमन्तरेणेत्यर्थः । कस्तर्ह्यत्यन्ताभावोऽत्राह-यस्त्विति । घटादिकार्यस्योत्पत्तौ विनाशे च समवायिकारणं मृत्स्नादि । 'स्वसमवेतकार्योत्पादकं समवायिकारणमिति तलक्षणात् । तत्र यः समवायिकारणनिष्ठः कार्योत्पत्तेः पूर्व पश्चाबेद्देदानीं घटो नास्तीत्यभावः प्रतीयते स तूक्ता या पूर्वत्र रीतिस्तया अत्यन्ताभाव एव ।
प० २
अथ एतद्धद्वैतद्भूतलाश्रयाश्रयिभावाभावे प्रमाणं प्रवर्तमानं किमभावमात्रं गोचरयति, किंवा एतद्धद्वैतद्भूतलाश्रयाश्रयिभावविशेषितमभावम् । आग्रे नाभावविशेषसिद्धिः । द्वितीयेऽपि निष्प्रमाणकविषयं प्रमाणं चेति व्याहतमित्युच्यते । तन्न । आभासप्रतिपन्ने निष्प्रमाणके तदभावविशेषस्यैव प्रमाणविषयत्वात्, स्मृते कुम्भादौ तदभावविशेषस्येव ।
( भुवन० ) - अत्यन्ताभावः प्रमीयते न वा । न चेदसिद्ध:, प्रमीयते चेत्तत्र विकल्पद्वयेनाशङ्कते — अथैतद्धटेति । एतद्भटैतद्भूतलयोर्यः आश्रयाश्रयिभावस्तदभावे प्रवर्तमानं प्रमाणमभावमात्रं गोचरयति, किंवा आश्रयाश्रयिभावेन विशेषितमभावम् । आश्रयाश्रयिभावं तदभावं च गोचरयतीत्यर्थः । पक्षद्वयमपि दूषयति- आद्ये इति । एतत्प्रतियोगिकोऽयमभावः इत्येवमभावविशेषेस्यासिद्धिः । अभावमात्रस्यैव ग्रहणात् । निष्प्रमाणकेति । निष्प्रमाणकस्याश्रयाश्रयिभावादेर्विषयोऽप्रमाणं चेति व्याघातः । यदि निष्प्रमाणकविषयं तर्हि प्रमाणं कथमिति, अत्र प्रतिसमाधत्ते — तनेति । आभासेन प्रमाणाभासेन प्रतिपन्ने निष्प्रमाणके आश्रयाश्रयिभावादौ तदभावविशेषस्यैव प्रमाणविषयत्वात् । अयं भावः । संसर्गादिराभासप्रतिपन्नः संसर्गाभावविशेषश्च प्रमाणप्रतिपन्नः । स्मृते कुम्भादाविति । यथा स्मृते कुम्भादौ मनसि सद्रूपत्वेनाभावात् निष्प्रमाणकेऽपि स्मृतकुम्भाभावविशेषस्य प्रमाणविषयत्वमित्यर्थः ।
अथ निष्प्रमाणकाभावे किं प्रमाणम् । एतद्वदैतद्भूतलाश्रयाश्रयिभावो नास्तीत्यादिप्रत्यक्षमेव । अनुमानं च - एतचक्षुः एतचक्षुर्जन्यप्रामाणिकप्रतियोगिकविषयत्वरहिताभावप्रमाजनकं चक्षुष्वात् अन्यचक्षुर्वदित्यादिकम् । इत्यलमतिविस्तरेण |
१ 'विशेषणस्या' इति छ पुस्तकपाठः ।
Aho! Shrutgyanam