________________
भुवनसुन्दरसूरिकृतटीकायुतं केवलान्वयिनि धर्मे बाधकमाह
ऽपि च । स्वस्मिन्वृत्तिरवर्तनेन सहिता व्याघातसंत्रासिता॥' इति । (भुवन०)-एतच्चक्षुरित्यादि । एतच्चक्षुर्देवदत्तादिविवक्षितचक्षुः । प्रामाणिकः प्रमाणग्राह्यः प्रतियोगी यस्याभावस्य स प्रामाणिकप्रतियोगिकः । स विषयो यस्य ज्ञानस्य तत्प्रामाणिकप्रतियोगिकविषयम् । एतच्चक्षुर्जन्यं च तत्प्रामाणिकप्रतियोगिकविषयं च, तस्य भावः तत्त्वम् । तेन रहितो योऽभावः तस्मिन् या प्रमा प्रमाणं तस्या जनकम् । अत्रैतच्चक्षुर्जन्यप्रामाणिकप्रतियोगिकविषयत्वरहिताभावो द्विधा स्यात्, अनेतच्चक्षुाह्यः प्रामाणिकप्रतियोगिकोऽभावो वा, एतच्चक्षुर्ग्राह्योऽप्रामाणिकप्रतियोगिकोऽभावो वा । आद्यो यद्यपि प्रामाणिकप्रतियोगिकविषयत्वरहितो नास्ति तथाप्येतच्चक्षुर्जन्यं यत्प्रामाणिकप्रतियोगिकविषयत्वं तेन रहितः एव । द्वितीयो यद्यप्येतच्चक्षुह्यत्वरहितो नास्ति तथाप्येतचक्षुर्जन्यं यत्प्रामाणिकप्रतियोगिकविषयत्वं तेनै रहितो नास्ति एव । तत्राद्यः पक्षः पक्षे व्याहतः। न ह्येतचक्षुर्यः एतच्चक्षुषा न गृह्यतेऽभावस्वस्य प्रमाजनकम् । द्वैतीयीकस्तु पक्षे सिध्यन्नप्रामाणिकप्रतियोगिकाभावस्य चाक्षुषत्वं साधयति । आद्यो विकल्पश्च सपक्षे प्रयोजकः । अथ व्यावृत्त्यचिन्ता । चक्षुरुक्तसाध्यवदित्युक्ते दृष्टान्तभागे सिद्धसाध्यता, तद्व्यावृत्त्यर्थमेतदिति । भावप्रमा. जनकत्वेनार्थान्तरं वारयति-अभावप्रमेति । अन्योन्याभावादिप्रमाजनकत्वेनार्थान्तरं पराकरोतिप्रामाणिकप्रतियोगिकविषयत्वरहितेति । अप्रसिद्धविशेषणतां दृष्टान्ते साध्यवैकल्यं च परिहर्तमेतच्चक्षुर्जन्येत्युक्तम् । आदिपदेनैतच्छ्रोत्रमेतच्छ्रोत्रजन्यप्रामाणिकप्रतियोगिकविषयत्वरहिताभावप्रमा. जनकं श्रोत्रत्वादन्यश्रोत्रवत् इत्यादिसंग्रहः । _ 'मानं हन्त न केवलान्वयवतो धर्मस्य सत्त्वेऽपि चेत्यादिवृत्तस्याद्यपादं व्याख्याय द्वितीयमवतारयति केवलान्वयिनीति । स्वस्मिन्निति । प्रमेयत्वादिहेतोः स्वस्मिन्वृत्तिरवृत्तिश्च व्याहतेत्यर्थः । इह स्वस्मिन्वृत्तीत्यादिपदे सहितशब्दः समुच्चयाभिप्रायेण बोद्धव्यः । दृश्यते हि समुच्चयेऽपि सहितपदप्रयोगः । तद्यथा-" रोहिणीसहितमुत्तरात्रयमिति श्रीपतिवचने । ___तथाहि-प्रमेयत्वादिकं स्वस्मिन् वर्तते न वा । आये व्याघातः । न हि तदेव तस्मिन् वर्तते इति संभवति, माता वन्ध्येतिवत् । यथौ हि या माता सा वन्ध्या न भवत्येवेति नियमः । एवं यत्प्रमेयत्वाश्रितं अभिधेयत्वादिकं प्रमेयं, यच्च प्रमेवत्वाश्रयः, तत्प्रमेयत्वं न भवत्येवेत्येतावपि नियमौ ।
१ बाधकान्तरमा इति घ पुस्तकपाठः । २ तेन रहिता या अभावप्रमा तस्याः जनकम् । अत्रैतचक्षुर्जन्यप्रामाणिकप्रतियोगिकविषयत्वरहिताभावप्रमा द्विधा स्यात् , अनेतच्चक्षुर्जन्याप्रामाणिकप्रतियोगिकाभावविषया बा, एतच्चक्षुर्जन्याप्रामाणिकप्रतियोगिकाभावविषया वा । आद्या ययापि प्रामाणिकप्रतियोगिकविषयत्वरहिता नास्ति तथाप्येतच्चक्षुर्जन्यत्वविशिष्टं यत्प्रामाणिकप्रतियोगिकविषयत्वं तेन रहिता एव । द्वितीया यद्यप्येतच्चक्षुर्जन्यस्वरहिता नास्ति तथाप्येतच्चक्षुर्जन्यत्वविशिष्टं यत्प्रामाणिकप्रतियोगिकविषयत्वं तेन रहिता अस्त्येव । तत्रायः इति अधिकः पाठः च पुस्तके वर्तते। ३त् । तथा हि इति थ पुस्तकपाठः ।
Aho! Shrutgyanam