SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ महाविद्याविडम्बनम् । ९३ ( भुवन ० ) - पक्षद्वयेऽपि व्याघातं दर्शयति — प्रमेयत्वादिकमिति । न हि तदेवेति । न हि प्रमेयत्वे प्रमेयत्वं वर्तत इति सम्भवति, आत्माश्रयबाधकतर्कात् । दान्तिकमाह-एवंयत्प्रमेयेत्यादि । अभिधेयत्वादिकं यत्प्रमेयत्वेनाश्रितं यच्च घटादिकं प्रमेयं प्रमेयत्वधर्माश्रयः, तत्प्रमेयत्वं न भवत्येव । अयमाशयः । अभिधेयत्वादिधर्मेषु घटादिरूपप्रमेयेषु च प्रमेयत्वं वर्तते । परमभिधेयत्वादिकं प्रमेयं च प्रमेयत्वरूपं न सम्भवति । तेनाभिधेयत्वप्रमेयत्वादौ प्रमेयत्ववर्तनेऽपि प्रमेयत्वरूपत्वाभावात् प्रमेयत्वे प्रमेयत्वं न वर्तत एव । इत्येतावपि नियमाविति । आद्यो नियमोऽभिधेयत्वादिधर्ममाश्रित्योपपादितः । द्वितीयस्तु प्रमेयं घटादिकं धर्मिणमाश्रित्योक्त इति नियमद्वयस्यापि साफल्यम् । प०२ अथ या माता सा वन्ध्या न भवति, या च वन्ध्या सा माता नेत्युभयेनियमो व्याघातस्थले दृष्टः । प्रकृते तु यत्प्रमेयत्वाश्रितं न तत्प्रमेयत्वमिति नियमसत्त्वेऽपि यत्प्रमेयत्वं न तत्प्रमेयत्वाश्रयः इति प्रतिवादिनं प्रति नियमो न सिद्धः । असाधारणत्वात् । तेन न व्याघातः इत्युच्यते । तन्न । एकनियमेन व्याघातोपपत्तौ द्वितीयनियमस्य निरर्थकत्वात् असाधारणेऽपि व्याप्तेवक्ष्यमाणत्वाच्चेति । द्वितीये पक्षे प्रमेयत्वादीनां केवलान्वयित्वव्याघातः । न हि स्वस्माद्व्यावृत्तः केवलान्वयी चेति संभवति । 1 ( भुवन० ) - प्रकृते त्विति । यत्प्रमेयत्वाश्रितं न तत्प्रमेयत्वमिति सत्त्वाभिधेयत्वादौ नियमसद्भावेऽपि, यत्प्रमेयत्वं तत्प्रमेयत्वस्याश्रयो नेति नियमः प्रतिवादिनं वैशेषिकादिकं प्रति न सिद्धः । असाधारणत्वादिति । पक्षमात्रवृत्तित्वेन सपक्षवृत्तिरहितत्वादसाधारणत्वमित्यर्थः । आचार्यः प्रत्युत्तरयति - तन्नेति । प्रमेयत्वाश्रितस्य प्रमेयत्वाभावव्याघ्या एकनियमेन व्याघातोपपत्तौ द्वितीयनियमो निरर्थक इत्यर्थः । असाधारणे इति । असाधारणेऽपि नियमे व्याप्तिरुत्तरत्र केवलव्यतिरेक्यनुमानादौ वक्ष्यते इत्यतश्च प्रमेयत्वादिकं स्वस्मिन् वर्तते न वेति विकल्प्य आयो निरस्तः । संप्रति द्वितीयं निरस्यति — द्वितीये पक्षे इति । न हि स्वस्मादिति । एकस्मात्स्वस्मादपि यो व्यावृत्तः स केवलान्वयीति न संभवति । केवलान्वयित्वस्य सर्ववस्तुनिष्ठत्वरूपत्वात् । एवं केवलान्वयिनं धर्म निरस्येदानीं केवलान्वयिना धर्मेण सह कस्यचि - दपि हेतोर्व्याप्तिर्न घटते इत्याह साध्याभाववदाश्रितत्वविरहो धूमादिलब्धस्थिति र्व्याप्तिः सा न हि केवलान्वयवता धर्मेण संगच्छते ॥ २ ॥ इति । साध्याभाववद्वृत्तित्वाभावो हि व्याप्तिः व्याप्यत्वं अविनाभावः इति चोच्यते । तस्यैवान्वयव्यतिरेकाभ्यां धूमादिनिष्ठस्यानुमित्यङ्गतावधार १ भयथा नियं इति घ पुस्तकपाठः । २ धारणत्वेऽपि इति घ पुस्तकपाठः । Aho! Shrutgyanam
SR No.034203
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorBhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy