________________
महाविद्याविडम्बनम् । स्वात्यन्ताभावव्यतिरिक्तैतनिष्ठात्यन्ताभावप्रतियोगिषु अनित्यत्वात्यन्ताभावव्यतिरिक्तैतन्निष्ठात्यन्ताभावप्रतियोगित्वं नाम धर्मः। तद्रहितश्च पक्षवृत्तिर्वा स्यात्, अनित्यत्वात्यन्ताभावो वा । आद्यस्यात्यन्ताभावः पक्षे व्याहतः, तेन अनित्यत्वात्यन्ताभावात्यन्ताभावः पक्षे सिध्यति । स चानित्यत्वमेवेत्यनित्यत्वं पक्षे सिध्यति ॥५॥
५ (आनं० ) अयं शब्दः इत्यादि । अनित्यत्वस्यात्यन्ताभावोऽनित्यत्वात्यन्ताभावः तस्माव्यतिरिक्तश्च पक्षनिष्ठो योऽत्यन्ताभावः, तत्प्रतियोगित्वरहितश्च, अनित्यत्वात्यन्ताभावव्यतिरिक्तैतनिष्ठात्यन्ताभावप्रतियोगित्वरहितो यो धर्मस्तदत्यन्ताभावाधिकरणमित्यर्थः । मेयत्वादिनार्थान्तरतां परिहर्तुमत्यन्ताभावाधिकरणमित्युक्तम् । तथापि गन्धरसादीनामत्यन्ताभावाधिकरणतया सिद्धसाधनता, अत उक्तम्--एतन्निष्ठात्यन्ताभावप्रतियोगित्वरहितेति । एतन्निष्ठात्यन्ताभावप्रतियोगित्वरहितात्यन्ताभावाधिकरणमित्युक्ते व्याघातपरिहारायोक्तम्-अनित्यत्वात्यन्ताभावव्यतिरिक्तेति । नैवं व्याघातः । अनित्यत्वात्यन्ताभावस्य अत्यन्ताभावाधिकरणतया साध्यसिद्धेरिति भावः । अनुमानार्थान्तरमाह-अत्र चेति । . ५ ( भुवन०)-' असाध्यान्यवियुक्तान्यव्यावृत्तिर्वा प्रसाध्यते ' एतत्कारिकार्धमाश्रित्य पक्षं पक्षयित्वा या प्रवृत्ता तामाह-अयं शब्दः अनित्यत्वेति । यः एतन्निष्ठः शब्दनिष्ठोऽत्यन्ताभावः, तस्य ये प्रतियोगिनो विश्वपदार्थाः । ते किंविशिष्टाः । अनित्यत्वस्य अत्यन्ताभावोऽनित्यत्वात्यन्ताभावः नित्यत्वं, तस्माद्व्यतिरिक्ता भिन्ना इत्यर्थः । तेषां भावस्तत्त्वम् । तेन रहितोऽनित्यत्वात्यन्ताभावव्यतिरिक्तैतन्निष्ठात्यन्ताभावप्रतियोगित्वरहितो यो धर्मो नित्यत्वादिः, तदत्यन्ताभावाधिकरणमित्यर्थः । मेयत्वादिनाऽर्थान्तरतापरिहाराय अत्यन्ताभावाधिकरणमित्युक्तम् । तथापि घटत्वादीनामत्यन्ताभावाधिकरणतया सिद्धसाध्यता । तदुक्तमेतनिष्ठात्यन्ताभावप्रतियोगित्वरहितेति । एतनिष्ठात्यन्ताभावप्रतियोगित्वरहितात्यन्ताभावाधिकरणमित्युक्ते व्याघातः स्यात् । ततस्तदपोहार्थमनित्यत्वात्यन्ताभावव्यतिरिक्तेति । न चैवं व्याघातः । अनित्यत्वात्यन्ताभावस्य अत्यन्ताभावाधिकरणतया पक्षे शब्दे साध्यसिद्धेः । इति व्यावृत्तिचिन्ता ॥ अयमाशयः-शब्दव्यतिरिक्तविश्वस्य अत्यन्ताभावःशब्देऽस्ति । अतस्तत्प्रतियोगित्वं विश्वस्यैवास्ति । तेन रहितं च साध्यधर्मपक्षे नित्यत्वमेव । तस्य अनित्यत्वात्यन्ताभावव्यतिरिक्तेतिपदेन विश्वात् पृथक्कृतत्वात् , तदत्यन्ताभावाधिकरणं अनित्यत्वाधिकरणं शब्द इत्यर्थः । आद्यस्यात्यन्ताभावः पक्षे व्याहत इति । पक्षवृत्तिः शब्दत्वादिधर्मों यद्यप्यनित्यत्वात्यन्ताभावव्यतिरिक्तैतन्निष्ठात्यन्ताभावप्रतियोगित्वरहितो वर्तते, परं तस्यात्यन्ताभावे शब्दमध्ये साध्यमाने व्याघातः स्यात् । तस्मात्पारिशेष्यान्नित्यत्वस्यैवात्यन्ताभावः शब्दे साध्यते इति भावः । शब्दमात्रवृत्तिशब्दत्वादीनामत्यन्ताभावः सर्वत्र सपक्षे धर्मो ज्ञेयः ॥ ५ ॥
६ अयं शब्दः स्वेतरानित्यनित्यवृत्तित्वरहितानेकैनित्यवृत्तित्वरहितानेत
१ अनित्येत्याधारभ्य नवमानुमाने 'आद्यः पक्षे ब्याघातात् ' इत्यन्तः ग्रन्थांशः ज पुस्तके जुटितः । २ ' अनेकनित्यत्तित्वरहित' इतिपदं ग पुस्तके नास्ति ।
Aho ! Shrutgyanam