________________
आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं
निष्ठाधिकरणं मेयत्वादिति । अनित्यवृत्तित्वे सति नित्यवृत्तयो ये धर्मास्तेष्वनित्यनित्यवृत्तित्वं धर्मः । तद्रहितस्तदत्यन्ताभाववान् । अनेकेषु वर्त्तन्ते ये धमस्तेष्वनेकनित्यवृत्तित्वं धर्मः । तद्रहितस्तदत्यन्ताभाववान् । अनेतन्निष्ठः पक्षीकृतशब्दान्यनिष्ठः । अनित्यनित्यवृत्तित्वरहितश्चासावनेकनित्यवृत्तित्वरहितश्च स चासावनेतन्निष्टश्च । तदधिकरणं तदाश्रय इत्यर्थः ।
१६
६ (आनं० )–स्वेतरानित्यनित्येत्यादि । पक्षीकृतशब्दादितरे येऽनित्याः नित्याञ्च तेषु वृत्तिर्यस्य धर्मस्य तस्य स्वेतरानित्यनित्यवृत्तित्वं धर्मः, तदत्यन्ताभाववांश्च अनेकेषु नित्येषु वृत्तित्वरहितञ्च, अयमेतन्निष्ठः पक्षीकृतशब्दादन्यनिष्ठश्चेति स्वेतरा नित्यनित्यवृत्तित्वरहिता ने कनित्यवृत्तित्वरहितानेतन्निष्ठस्तस्याधिकरणमित्यर्थः । अयं शब्दोऽधिकरणमित्युक्ते पक्षीकृतशब्दव्यतिरिक्तत्वात्यन्ताभावेन पक्षमात्रनिष्ठेन अर्थान्तरता, अत उक्तम्-अनेतन्निष्ठेति । अनेतन्निष्ठाधिकरणमित्युक्ते मेयत्वादिनार्थान्तरता, अत उक्तम्- नित्यवृत्तित्वरहितेति । नित्यवृत्तित्वरहितानेतन्निष्ठाधिकरणमित्युक्ते आकाशव्यतिरिक्तनित्यान्यत्वेन शब्दनित्यत्वेऽप्युपपद्यमानेन आकाशव्यतिरिक्तनित्येषु वृत्तिहीनेन अर्थान्तरता, अत उक्तम्- अनेकनित्यवृत्तित्वरहितेति । पक्षीकृतशब्दनित्यवे तस्यानेक नित्यवृत्तित्वेन तद्रहितत्वानुपपतिः । अनेक नित्यवृत्तित्वरहितानेतन्निष्ठाधिकरणमित्युक्तौ नित्यत्वेन अर्थान्तरता, अत उक्तम्-अनेकनित्यवृत्तित्वरहितेति । स्वेतरेति पदं स्पष्टीकरणार्थम् । अनित्यनित्यवृत्तित्वरहितानेकनिष्ठचानित्यमेव पक्षे पर्यवस्यतीति भावः । पक्षव्यतिरिक्ते सर्वत्र स्वान्यत्वाधिकरणप्रतियोगिकः एकैकधर्मिकोऽन्योन्याभावोऽस्तीति व्याप्तिसिद्धिः । अनुमान विवरणग्रन्थो व्याख्यातार्थः ।
६ ( भुवन० ) अथ ' अपक्षसाध्यवद्वृत्तिविपक्षान्वयवर्जितः । नानाविपक्षवृत्त्यन्यभिन्नधर्मोSस्ति पक्षिते ' इति कारिकामाश्रित्य या प्रवृत्ता तां दर्शयति-अयं शब्दः स्वेतरानित्यनित्यत्तित्वरहितेति । स्वस्मादितरे येऽनित्या नित्याच तेषु वृत्तिर्यस्य धर्मस्य तस्य स्वेतरानित्य नित्यवृत्तित्वं, तदत्यन्ताभाववांश्चासौ, अनेकेषु नित्येषु वृत्तित्वरहितश्चायम्, अनेतन्निष्ठः पक्षीकृतशब्दान्यनिष्ठश्चेति स्वेतरानित्यनित्यवृत्तित्वरहितानेक नित्यवृत्तित्वरहितानेतन्निष्ठः, तस्याधिकरणमित्यर्थः । न एषः अनेषः। अनेतस्मिन् पक्षीकृतशब्दादन्यस्मिन्निष्ठा यस्य सोऽनेतन्निष्ठः । नन्वेवंविधविशेषणविशिटोsपि शब्दे सिषाधयिषितो धर्मो यद्यनेतन्निष्ठः, कथं तर्ह्येतस्मिन् शब्दे साध्यते, व्याघातप्रसंगात्, पादौ घटत्वादिसाधनवत् इति चेत् । न । अर्थापरिज्ञानात् । अनेतन्निष्ठ इत्यस्य ह्ययमर्थः, शब्दे सिषाधयिषितोऽनित्यत्वादिको धर्मो घटे घटत्ववन्न केवले शब्दे एव वर्तते, किन्तु शब्दे शब्दादन्यत्र घटादौ च स वर्तते एव । तस्मात्तस्यानेतन्निष्ठत्वमुपपन्नमेवेति भावः ।
अनेकनित्यवृत्तित्वरहितानेतन्निष्ठाधिकरणमित्युक्ते पक्षीकृत शब्दव्यतिरिनित्यत्वात्यन्ताभावादिना अनेकनित्यवृत्तित्वरहितानेतन्निष्ठेन शब्दनित्यत्वेऽप्युपपद्यमानेनार्थान्तरता स्यात् । तन्निवृत्यर्थमनित्यनित्यवृत्तित्वरहितग्रहणम् ।
Aho! Shrutgyanam