________________
असंख्यातादिप्रयोजनं
क्तानन्तमुत्कृष्टमित्युक्तं पूर्वसूरिभिः ॥२०॥ अत्रैकरूपप्रक्षेपादनन्तानन्तकं लघु । प्राग्वदेतदपि ज्ञेयं, मध्यमुत्कृष्टकावधि ॥१॥ जघन्यानन्तानन्तं तत्, वर्गयित्वा त्रिशस्ततः।क्षेपानमूननन्तान् षट्, वक्ष्यमाणान्नियोजयेत् ॥२॥ ते चामी-वनस्पती १ निगोदानां, जीवान २ सिद्धांश्च ३ पुद्गलान् ४। सर्वकालस्य समयान्, ५ सर्वालोकनभोऽशकान् ६॥३॥ पुनस्त्रिवर्गिते जातराशौ तस्मिन् विनिक्षिपेत् । पर्यायान् केवल ज्ञानदर्शनानामनन्तकान् ॥ ४॥ अनन्तानन्तमुत्कृष्टं, भवेदेवं कृते सति । मेयाभावादस्य मध्ये, नैव व्यवहतिः पुनः ॥५॥ एवं च नवधाऽनन्तं, कर्मग्रन्थमते भवेत् । भवत्यष्टविधं किंच, सिद्धान्ताश्रयिणां मते ॥ २०६॥ सर्वेषां रूपमेकैकमेषां ज्येष्ठकनीयसाम् । मध्यमानां तु रूपाणि, भवन्ति बहुधा किल ॥ २०७॥ सङ्ख्यातभेदं सङ्ख्यातमसङ्ख्यातविधं पुनः। असलयातमनन्तं चानन्तभेदं प्रकीर्तितम् ॥ २०८॥ प्रयोजनं त्वेतेषां-अभ-1 विअ चउत्थणते, पंचमि सम्माइ परिवडिअ सिद्धा । सेसा अट्ठमणते, पजथूलवणाइ बावीसं ॥ २०९ ॥ ते चामी-बायरपज्जत्तवणा १, बायरपज २ अपजबायरवणा ३ य । बायरअपज्ज ४ बायर ५, सुहुमापज्जवण ६ सुहुमअप्पज्जा ७॥ १०॥ मुहुमवणा पजत्ता ८, पजसुहमा ९ सुहुम १० भवय ११ निगोया १२॥ वण १३ एगिदिय १४ तिरिया १५, मिच्छद्दिट्टी १६ अविरया १७ य ॥ ११॥ सकसाइणो १८ य छउमा १९ सजोगि २० संसारि २१ सघजीवा २२ य । जहसंभवमन्भहिया, बावीसं अट्ठमेऽणंते ॥१२॥ इत्यादि यथास्थानं १ दृष्टिवादभृदाचार्यप्रणीतकर्मप्रकृत्यादिशास्त्राणामप्रामाण्यमापादयितुमशक्यत्वात् । अप्रतःसंख्याऽभावात् पूर्वानन्तप्रक्षेपेऽनवस्थानात् ।।
92000000000002020129202
१०
Jain Education N
ona
For Private & Personel Use Only
ainelibrary.org