Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 285
________________ शद्रव्यवच्छोत्रोपघातकतयापि च ॥४०॥ ध्वनेः पौद्गलिकत्वं स्याद्यौक्तिकं यत्तु केचन । मन्यन्ते व्योमगुणतां, तस्य तन्नोपयुज्यते ॥४१॥ अस्य व्योमगुणत्वे तु, दरासन्नस्थशब्दयोः श्रवणे न विशेषः स्यात्,सर्वगं खलु यन्नभः॥४२॥ यथा शब्दस्तथा छायातपोद्योततमांस्यपि । सन्ति पौद्गलिकान्येवेत्याहुः श्रीजगदीश्वराः ॥४३॥ यदादर्शादौ मुखादेः, प्रतिबिम्ब निरीक्ष्यते । सोऽपि छायापुद्गलानां, परिणामो न तुभ्रमः॥४४॥भ्रमो ज्ञानान्तरवाध्यः, स्यान्नैतत्तु तथेक्ष्यते । न च भ्रमः स्यात्सर्वेषां, युगपत्पटुचक्षुषाम् ॥४५॥ सर्वस्थूलपदार्थानां, ते छायापुद्गलाः पुनःसाक्षादेव प्रतीयन्ते, छायादर्शनतः स्फुटाः॥४६॥ सर्वबैन्द्रियकं वस्तु, चयापचयधर्मकम् । रश्मिवच रश्मयस्तु, छायापुद्गलसंहतिः॥४७॥ तथोक्तं प्रज्ञापनावृत्ती-"सर्वमैन्द्रियकं वस्तु स्थूलं चयापचयधर्मकं रश्मिवच्चे"ति॥अवाप्य ताइक्सामग्री, ते छायापुद्गलाःपुनः। विचित्रपरिणामाः स्युः, खभावेन तथोच्यते ॥४८॥ यदातपादियुक्ते ते, गता वस्तुन्यभाखरे । तदा स्वसंबन्धिवस्त्वाकाराः स्युः श्यामरूपकाः॥४९॥ दृश्यते ह्यातपज्योत्स्लादीपालोकादियोगतः। स्थूलद्रव्याकृतिश्छाया, भूम्यादी श्यामरूपिका ॥ ५० ॥ यदा तु खड्डादर्शादिभाखरद्रव्यसंगताः। तदा स्युस्ते स्वसंबन्धिद्रव्यवर्णाकृतिस्पृशः॥५१॥ आदर्शादौ प्रतिछाया, यत्प्रत्यक्षेण दृश्यते । मूलवस्तुसदृग्वर्णाकारादिभिः समन्विता ॥५२॥ एषां स्वरूपवैचित्र्यं, न चैतनोपपद्यते। सामग्रीसहकारेण, नानावस्था हि पुदलाः॥५३॥ यथा दीपादिसामग्र्या, तामसा अपि पुद्गलाः। प्रकाशरूपाः स्युर्दीपापगमे तादृशाः पुनः ॥५४॥ आतपोचतयोः पौगलिकत्वं तु निर्विवादं ॥ पुद्गलत्वं तु Jain Educat i onal For Private & Personel Use Only ISvww.jainelibrary.org

Loading...

Page Navigation
1 ... 283 284 285 286 287 288