Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे ११पुद्गलस. ॥१३०॥
भेदः अगुरुलघुतादि
सान्यगुरुलघुकानि ॥२५॥ (आर्याः) तथोक्तं-"निच्छयओ सवगुरुं सबलहुं वा न विजए दवं । ववहारओ उ जुजइ बायरखंधेसु नऽण्णेसु ॥ २६ ॥ अगुरुलहू चउफासा अरूविदवा य होंति नायवा। सेसा उ अट्टफासा गुरुलहुआ निच्छयनयस्स ॥ २७ ॥ ओरालिय वेउविय आहारग तेय गुरुलहू दवा । कम्मगमणभासाई एयाइं अगुरुलहुआई ॥२८॥” इति भगवतीवृत्तौ ॥ वर्णगन्धरसस्पर्शसंस्थानैर्मुख्यभावतः । प्रत्येक चिन्तितैर्भेदाः, स्युर्भूयांसोऽत्र ते त्वमी ॥ २९ ॥ एकस्योज्वलवर्णस्य, द्वौ भेदो गन्धभेदतः। संस्थानैश्च रसैश्चापि, पञ्च पञ्च भिदो मताः ॥ ३०॥ स्पर्शस्तथाऽष्ट भेदाः स्युरेवमेकस्य विंशतिः । इतीह पञ्चभिर्वर्णभैदानां शतमाप्यते ॥ ३१॥ संस्थानानां रसानां च, प्राधान्येनैवमिष्यते । शतं शतं विभेदानां, ततो जातं शतत्रयम् ॥ ३२ ॥ सुगन्धीनां पञ्च पञ्च, भेदा वर्णं रसैस्तथा । संस्थानैश्चाष्ट तु स्पर्शः, स्युस्त्रयोविंशतिस्ततः ॥ ३३ ॥ दुर्गन्धानामपीत्थं स्युस्त्रयोविंशतिरेव हि । षट्चत्वारिंशदुभययोगे स्युर्गन्धजा इति ॥ ३४ ॥ शीतस्पर्शस्यापि भेदौ, द्वौ मतो गन्धभेदतः। संस्थानरसवर्णैश्च, पञ्च पञ्च भिदस्तथा ॥ ३५ ॥ शीतस्याधिकृतत्वेन, तत्रोष्णस्य त्वसंभवात् । भिदोऽस्य शेषैः स्पर्शः षट्, स्युस्त्रयोविंशतिस्ततः ॥३६॥ स्पर्शानामेवमष्टानां, प्रत्येकं गन्धयोरपि । त्रयोविंशतिभेदत्वाद्, द्विशती त्रिंशदुत्तरा ॥ ३७॥ एवमेते पुद्गलानां, भेदाः सर्वे प्रकी-1 र्तिताः। शतानि पञ्च सत्रिंशान्येवमजीवरूपिणाम् ॥ ३८॥ योऽसौ शब्दपरीणामो, द्विधा सोऽपि शुभोऽ- शुभः । पुद्गलानां परीणामा, दशाप्येवं निरूपिताः ॥३९॥ गन्धद्रव्यादिवढातानुकूल्येन प्रसर्पणात् । ताह
॥१३०॥
Jain Education Wo
onal
For Private & Personel Use Only
Mirjainelibrary.org

Page Navigation
1 ... 282 283 284 285 286 287 288