Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
च्छपाः । ज्ञेया संज्ञाभिरेताभिग्रहाः पञ्चविधाः पुनः ॥ ६७ ॥ दिली वेढला सुद्धला पुलगा सीसागारा इति । द्विविधा मकराः शोण्डा, मट्टा इति विभेदतः । एकाकाराः शिशुमाराः, सर्वेऽमी जलचारिणः ॥ ६८ ॥ इति जलचराः ॥ चतुष्पदाः परिसर्पा, इति स्थलचरा द्विधा । चतुष्पदाश्चतुर्भेदास्तत्र प्रोक्ता विशारदैः ॥ ६९ ॥ केचिदेकखुराः केचिद्, द्विखुरा अपरे पुनः । गण्डीपदाच सनखपदा अन्ये प्रकीर्त्तिताः ॥ ७० ॥ अभिन्नाः स्युः खुरा येषां ते स्युरेकखुराभिधाः । गर्दभाश्वादयस्ते तु, रोमन्थं रचयन्ति न ॥ ७१ ॥ भिन्ना येषां खुरास्ते स्युखुरा बहुजातयः । महिषा गवया उष्ट्रा, वराहच्छगलैडकाः ॥ ७२ ॥ रुरवः शरभाश्चापि चमरा रोहिषा मृगाः । गोकर्णाद्या अमी सर्वे, रोमन्थं रचयन्ति वै ॥ ७३ ॥ स्यात्पद्मकर्णिका गण्डी, तद्वद्येषां पदाश्च ते । हस्तिगण्डकखङ्गाद्या, गण्डीपदाः प्रकीर्त्तिताः ॥ ७४ ॥ इत्युत्तराध्ययनवृत्तौ ॥ प्रज्ञापनावृत्तौ तु - " गण्डी सुवर्णकाराधिकरणस्थान" मिति ॥ येषां पदा नखेदधैः, संयुताः स्युः शुनामिव । तीर्थङ्करैस्ते सनखपदा इति निरूपिताः ॥ ७५ ॥ सिंहा व्याघ्रा द्वीपिनश्च, तरक्षा ऋक्षका अपि । शृगालाः शशकाश्चित्राः, श्वानश्चान्ये तथाविधाः ॥ ७६ ॥ इति चतुष्पदाः ॥ भुजोरः परिसर्पत्वात्, परिसर्पा अपि द्विधा । तत्रोरः परिसर्पाश्च, चतुर्धा दर्शिता जिनैः ॥ ७७ ॥ अहयोऽजगरा आसालिका महोरगा इति । अहयो द्विविधा दवकरा मुकुलिनस्तथा ॥ ७८ ॥ दर्वीकराः फणभृतो, या देहावयवाकृतिः । फणाभावोचिता सा स्थान, मुकुलं तद्युताः परे ॥ ७९ ॥ दर्वी करा बहुविधा, दृष्टा दृष्टजगत्रयैः । आशीविषा दृष्टिविषा, उग्र भोगविषा अपि ॥८०॥ लालाविषा
tional
For Private & Personal Use Only
१४
ainelibrary.org

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288