Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 272
________________ लोकप्रकाशे १० भवसंवे. ॥१२४॥ Jain Education गुर्वादीनां तथैव च । ज्ञानोपकरणानां चाशातनाद्वेषमत्सरैः ||२४|| निन्दोपघातान्तरायैः, प्रत्यनीकत्व निह्नवैः । बनात्यावरणं कर्म, ज्ञानदर्शनयोर्भवी ॥ ५५ ॥ युग्मम् । गुर्वादिभक्तिकरुणाकषायविजयादिभिः । बध्नाति कर्म साताख्यं दाता सद्धर्मदायुक् ॥ ५६ ॥ गुर्वादिभक्तिविकलः, कषायकलुषाशयः । असातावेदनीयं च, वनाति कृपणोऽसुमान् ॥५७॥ उन्मार्गदेशको मार्गापलापी साधुनिन्दकः । बध्नाति दर्शनमोहं, देवादिद्रव्य भक्षकः॥ ५८ ॥ कषाय हास्यविषयादिभिर्वभाति देहभृत् । कषायनोकषायाख्यं, कर्म चारित्रमोहकम् ॥ ५९ ॥ निबध्नाति नारकायुर्महारम्भपरिग्रहः । तिर्यगायुः शल्ययुक्तो, धूर्त्तश्च जनवञ्चकः ॥ ६० ॥ नरायुर्मध्यमगुणः, प्रकृत्याऽल्पकपायकः । दानादौ रुचिमान् जीवो, बध्नाति सरलाशयः ॥ ६१ ॥ चतुर्थादिगुणस्थान वर्त्तिनोऽकामनिर्जराः । जीवा बनन्ति देवायुस्तथा बालतपखिनः ॥ ६२ ॥ गुणप्रेक्षी व्यक्तमदोऽध्ययनाध्यापनोद्यतः । उच्चं गोत्रमईदादिभक्तो नीचमतोऽन्यथा ॥ ६३ ॥ अगौरवश्च सरलः, शुभं नामान्यथाऽशुभम् । बध्नाति हिंसको विघ्नमर्हत्पू जादिविघ्नकृत् ||६४|| स्थितिरुत्कर्षतो ज्ञानदर्शनावरणीययोः । वेदनीयस्य च त्रिंशदम्भोधिकोटिकोटयः ॥ ६५ ॥ मोहनीयस्य चान्धीनां, सप्ततिः कोटिकोटयः । आयुषः स्थितिरुत्कर्षात्रयस्त्रिंशत्पयोधयः ॥ ६६ ॥ अबाधाकालरहिता, प्रोक्तेषाऽऽयुर्गुरुस्थितिः । तद्युक्तेयं पूर्वकोटीतार्त्तीयीकलवाधिका ॥ ६७ ॥ गोत्रनाम्नोः साऽम्बुधीनां, विंशतिः कोटिकोटयः । स्थितिर्ज्येष्ठाऽन्तरायस्य, स्याद् ज्ञानावरणीयवत् ॥ ६८ ॥ स्थितिर्जघन्यतो ज्ञानदर्शनावरणीययोः । अन्तर्मुहूर्त्तप्रमिता, तत्त्वविद्भिर्निरूपिता ॥ ६९ ॥ कषायप्रत्ययं बन्धमाश्रित्याल्पीयसी स्थितिः । For Private & Personal Use Only कर्मणां हेतवः स्थितयश्च २० २५ ॥ १२४॥ २८ w.jainelibrary.org

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288