Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तपनामकर्म, रविबिम्बाङ्गिनामिव ॥ ३८॥ उष्णस्पर्शोदयादुष्णस्याग्नेर्या तु प्रकाशिता । न ह्यातपात्सा किं तु स्यात्तादृग्लोहितवर्णतः॥ ३९॥ तदुद्योतनामकर्म, यतोऽनुष्णप्रकाशकृत् । भवति प्राणिनामङ्गं, खद्योतज्योतिरादिवत् ॥४०॥ रत्नौषध्यादयोऽप्येवमुद्योतनामकर्मणा । द्योतन्ते मुनिदेवाश्च, विहितोत्तरवैक्रियाः ॥४१॥ यतो वपुर्नातिगुरु, नातिलध्वगिनां भवेत् । नामकर्मागुरुलघु, तदुक्तं युक्तिकोविदः ॥४२॥ तद्भवेतीर्थकृन्नाम, यतस्त्रिजगतोऽपि हि । अर्चनीयो भवत्यङ्गी, प्रातिहार्याद्यलङ्कतः॥४३॥ तद्विंशतः स्थानकानामाराधनान्निकाच्यते । भवे तृतीये नृगतावेव सम्यक्त्वशालिना ॥४४॥ उदयश्च भवत्यस्य, केवलोत्पत्त्यनन्तरम् । वेद्यते चैतद्ग्लान्या, धर्मोपदेशनादिभिः॥४५॥ यथास्थाने नियमनं, कुर्यान्निर्माणनाम तु । अङ्गोपाङ्गानां गृहादिकाष्ठानामिव वाकिः॥४६॥ प्रतिजिह्वादिना स्वीयावयवेनोपहन्यते । यतः शरीरी तदुपघातनाम प्रकीर्तितम् ॥४७॥ भवेदानलाभभोगोपभोगवीर्यविघ्नकृत् । अन्तरायं पञ्चविधं, कोशाध्यक्षसमं ह्यदः॥४८॥ यथा दित्सावपि नृपे, न प्राप्नोति धनं जनः। प्रातिकूल्यं गते कोशाध्यक्ष केनापि हेतुना ॥४९॥ अपि जानन दानफलं, वित्ते पात्रे च सत्यपि । तथा दातुं न शक्नोति, दानान्तरायविनितः ॥ ५० ॥ तथै-18 वोपायविज्ञोऽपि, कृतयत्नोऽपि नासुमान् । हेतोः कुतोऽपि प्राप्नोति, लाभं लाभान्तरायतः॥५१॥ भोगोप-12 भोगौ प्राप्तावप्यङ्गी भोक्तुं न शक्नुयात् । भोगोपभोगान्तरायविनितो मम्मणादिवत् ॥५२॥ इष्टानिष्टवस्तुलब्धिपरिहारादिषूद्यमम् । शक्तोऽपि कर्नु तं का, नेष्टे वीर्यान्तरायतः॥५३॥ज्ञानानां च ज्ञानिनां च,
१४
Jain Educ
tional INT
For Private
Personal Use Only
Diww.jainelibrary.org

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288