Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मंताओ उवरिल्लं चरिमंतं एगेणं समएणं गच्छति ? हंता गोयमा ! जाव गच्छति ॥ इति भगवतीसूत्रे शत०१६ उ०८॥ इति गतिपरिणामः॥ परिमण्डलं च वृत्तं, यस्रं च चतुरस्रकम् । आयतं च रूप्यजीवसंस्थानं पञ्चधा मतम् ॥४८॥ मण्डलावस्थिताण्वोघं, बहिः शुषिरमन्तरे । वलयस्येव तज्ज्ञेयं, संस्थानं परिमण्डलम् ॥४९॥ अन्तःपूर्ण तदेव स्यादृत्तं कुलालचक्रवत् । व्यत्रंशृङ्गाटवत्कुम्भिकादिवच्चतुरस्रकम् ॥५०॥ आयतं दण्डबद्दीर्घ, घनप्रतरभेदतः। चत्वारि स्युर्द्विधा संस्थानानि प्रत्येकमादितः॥५१॥ आयतं तु त्रिधा श्रेणिघनमत-18 रभेदतः। ओजयुग्मप्रदेशानि, द्वेधाऽमूनि विनाऽऽदिमम् ॥५२॥ ओजःप्रदेशं प्रतरवृत्तं पश्चाणुसंभवम् । पञ्चाकाशप्रदेशावगाढं च परिकीर्तितम् ॥ ५३ ॥ यत्र प्रदेशाश्चत्वारश्चतुर्दिशं प्रतिष्ठिताः। एकः प्रदेशोऽन्तर्वृत्तप्रतरं तद् यथोदितम् ॥५४॥ युग्मप्रदेशं प्रतरवृत्तं च द्वादशाणुकम् । तावदभ्रांशावगाढं, तच्चैवमिह जायते॥५॥ चतुर्वभ्रप्रदेशेषु, चत्वारोऽशा निरन्तरम् । स्थाप्यन्ते रुचकाकारास्तत्परिक्षेपतस्ततः॥५६॥ द्वौ द्वौ चतुर्दिशं स्थाप्यौ, प्रदेशौ जायते ततः । युग्मप्रदेशं प्रतरवृत्तमुक्तं पुरातनैः ॥५७॥ सप्ताणुकं सप्तखांशावगाढं च भवेदिह । ओजःप्रदेशनिष्पन्नं, घनवृत्तं हि तद्यथा ॥५८॥ पञ्चप्रदेशे प्रतरवृत्ते किल पुरोदिते । अध ऊर्द्ध च मध्याणोरेकैकोऽणुर्निवेश्यते ॥ ५९॥ द्वात्रिंशदणुसंपन्नं, तावत्खांशावगाढकम् । युग्मप्रदेशं हि घनवृत्तं भवति तद्यथा ॥ ६० ॥ उक्तप्रतरवृत्तस्य, द्वादशांशात्मकस्य वै । उपरिष्टाद् द्वादशान्ये, स्थाप्यन्ते परमाणवः ॥ ६१॥ ततः पुनर्मध्यमाणुचतुष्कस्याप्युपर्यधः । स्थाप्यन्ते किल चत्वारश्चत्वारः परमाणवः ॥६२ ॥ ओज-18| १४
Jain Educat
onal
For Private Personal Use Only
OMw.jainelibrary.org

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288