Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे १० भवसंवे.
॥१२३॥
Jain Education
प्रत्येकाख्यकर्मणा ॥ २३ ॥ स्थिरनामोदयाद्दन्तास्थ्यादि स्यात् स्थिरमङ्गिनाम् । नाभेरूर्द्ध च मूर्द्धादि, शुभना मोदयाच्छुभम् ॥ २४ ॥ स्पृष्टो मूर्द्धादिना धन्यः, शुभत्वादेव मोदते । अशुभत्वादेव परः स्पृष्टः क्रुध्येत्पदादिना ॥ २५ ॥ स्यात्प्रियोऽनुपकर्त्ताऽपि, लोकानां सुभगोयात् । मनोरमस्वरः प्राणी, भवेत्सुस्वरनामतः ॥ २६ ॥ अयुक्तवाद्यप्यादेयवाक् स्यादादेयनामतः । यशोनाम्नो यशः कीर्त्तिर्व्याप्रोति भुवि देहिनाम् ॥ २७ ॥ तत्र च - पराक्रमतपस्त्यागाद्युद्भूतयशसा हि यत् । कीर्त्तनं श्लाघनं ज्ञेया, सा यशः कीर्त्तिरुत्तमैः ॥ २८ ॥ यद्वा दानादिजा कीर्त्तिः, पराक्रमकृतं यशः । एकदिग्गामिनी कीर्त्तिः, सर्व दिग्गामुकं यशः ॥ २९ ॥ स्थावरः स्यात्स्थावराख्यात्, सूक्ष्मः स्यात्सूक्ष्मनामतः । अपर्याप्तोऽङ्गी म्रियेतापर्याप्तनामकर्मतः ॥ ३० ॥ साधारणाङ्गः स्यात्साधारणाख्यनामकर्मतः । अस्थिरास्थिदन्तजिह्वा कर्णादिरस्थिरोदयात् ॥ ३१ ॥ नाभेरधोऽशुभं पादादिकं चाशुभनामतः । उपकर्त्ताऽप्यनिष्टः स्याल्लोकानां दुर्भगोदयात् ॥ ३२ ॥ उक्तं च प्रज्ञापनावृत्तौ - " अणुवकएडवि बहूणं जो हु पिओ तस्स सुभगनामुदओ । उवगारकारगोऽविहु न रुच्चई दुग्भगस्सुद ॥ ३३ ॥ सुभगुद एवि हु कोई कंची आसज्ज दुग्भगो जवि । जायइ तद्दोसाओ जहा अभवाण तित्थयरो ॥ ३४ ॥ " दुष्टानिष्टस्वरो जन्तुर्भवेदुः स्वरनामतः । युक्तवाद्यप्यनादेयवाक्योऽनादेयनामतः ॥ ३५ ॥ अयशोऽकीर्त्तिभाग जीवोऽयशोनामोदयाद्भवेत् । सस्थावरदशके, एवमुक्ते स्वरूपतः ॥ ३६ ॥ पराघातोदयात्प्राणी, परेषां बलिनामपि । स्यादू दुर्द्धर्षः सदुच्छ्वासलब्धिश्वोच्छ्वासनामतः ॥ ३७ ॥ यतः स्वयमनुष्णोऽपि भवत्युष्णप्रकाशकृत् । तदा
For Private & Personal Use Only
नामभेदाः
२०
२५
॥ १२३॥
२८
ainelibrary.org

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288